आरात्स्थित्वाग्रतो धन्वी संतापयितुमुद्यतः
स्मरमालोकयामास शिखाग्राच्चरणान्तिकम्
प्रादह्यत तदा ब्रह्मन् पादादारभ्य कक्षवत्
उत्ससर्ज धनुः श्रेष्ठं तज्जगामाथ पञ्चधा
स चम्पकतरुर्जातः सुगन्धाढ्यो गुणाकृतिः
तज्जातं केसरारण्यं बकुलं नामतो मुने
जाता सा पाटला रम्या भृङ्गराजिविभूषिता
पञ्चगुल्माभवज्जाती शशाङ्ककिरणोज्ज्वला
तस्माद्भुपुटा मल्ली संजाता विविधा मुने
जातियुक्तानि देवेन स्वयमाचरितानि च
फलोपगानि वृक्षाणि संभूतानि सहस्रशः
हरप्रसादाज्जातानि भोज्यान्यपि सुरोत्तमैः
पुष्यार्था शिशिराद्रिं स जगाम तपसे ऽव्ययः
ततस्त्वनङ्गेति महाधनुर्द्धरो देवैस्तु गीतः सुरपूर्वपूजितः
प्रहस्यैवं वचः प्राह कन्दर्व इह आस्यताम्
वसन्तो ऽपि महाचिन्तां जगामाशु महामुने
वसन्तमाह भगवानेह्येहि स्थीयतामिति
आदाय प्राक्सुवर्णाङ्गीमूर्वोर्बालां विनिर्ममे
अमन्यत तदानङ्गः किमियं सा प्रिया रतिः
सुनासावंशाधरोष्ठमालोकनपरायणम्
राजेते ऽस्यः कुचौ पीनौ सज्जनावि संहतौ
उदरं राजते श्लक्ष्णं रोमावलिविभूषितम्
राजते भृङ्गमालेव पुलिनात् कमलाकरम्
श्रीरोदमथने नद्धूं भूजङ्गेनेव मन्दरम्
विभाति सा सुचार्वङ्गी पद्मकिढ्जल्कसन्निभा
विभातो ऽस्यास्तथा पादावलक्तकसमत्विषौ
कामातुरो ऽसौ संजातः किमुतान्यो जनो मुने
किंस्वित् कामनरेन्द्रस्य राजधानी स्वयं स्थिता
रविरश्मिप्रतापार्तिभीता शरणमागता
तस्थौ मुनिरिव ध्यानमास्थितः स तु माधवः