मनसा कर्मणा वाचा राज्यभ्रष्टस्तथा पत
चतुर्दशसु लोकेषु रपाज्यभ्रष्टस्तथा पत
यथा तथानुपस्येयं भवन्तं राज्यविच्युतम्
अवतीर्यासनाद् ब्रह्मन् कृताञ्जलिपुटो बली
कृतापराधानपि हि क्षमन्ति गुरवः शिशून्
न बिभेमि परेभ्यो ऽहं न च राज्यपरिक्षयात्
दुःखं कृतापराधत्वाद् भवतो मे महत्तरम्
कृते ऽपि दोषे गुरवः शिशूनां क्षमन्ति दैत्यं समुपागतानाम्
चिरं विचिन्त्याद्भुतमेतदित्थमुवाच पौत्रं मधुरं वचो ऽथ
येन सर्वगतं विष्णुं जानंस्त्वां सप्तवानहम्
ममाविशन्महाबाहो विवेकप्रतिषेधकः
अवश्यं भाविनो ह्यर्था न विनश्यन्ति कर्हिचित्
आगमे निर्गमे प्राज्ञो न विषादं समाचरेत्
सुखदुःखानि दैत्येन्द्र नरस्तानि सहेत् तथा
संपदं च सुविस्तीर्णां प्राप्य नो ऽधृतिमान् भवेत्
धीराः कार्येषु च सदा भवन्ति पुरुषोत्तमाः
कर्तुमर्हसि विद्वांस्त्वं पण्डितो नावसीदति
भवतो ऽथ तथान्येषां श्रुत्वा तच्च समाचर
स ते त्राता भयादस्माद् दानवेन्द्र भविष्यति
संसारगर्तपतितस्य करावलम्बं नूनं न ते भुवि नरा ज्वरिणो भवन्ति
स एष भवतः श्रेयो विधास्यति जनार्धनः
विमुक्तपापश्च ततो गमिष्ये यत्राच्युतो लोकपतिर्नृसिंहः
आमन्त्र्य सर्वान् दनुयूथपालान् जगाम कर्तुं त्वथ तीर्थयात्राम्
प्रह्लादतीर्थयात्रां मे सम्यगाख्यातुमर्हसि
प्रह्लादतीर्थयात्रां ते शुद्धपुण्यप्रदायिनीम्
ख्यातं पृतिव्यां शुभदं हि मानसं यत्र स्थितो मत्स्यवपुः सुरेशः
संपूज्य च जगन्नाथमच्युतं श्रुतिभिर्युतम्
जगाम कच्छपं द्रष्टुं कौशिक्यां पापनाशनम्
समुपोष्य शुचिर्भूत्वा दत्वा विप्रेषु दक्षिणाम्
तत्र देवह्रदे स्नात्वा तर्पयित्वा पितॄन् सुरान्