येन निस्तेजसो दैत्या जाता दैत्येन्द्र हेतुना
प्रयाताः शरणं देवं हरिं त्रिभुवनेश्वरम्
अवतीर्णो महाबाहुरदित्या जठरे हरिः
नालं तमो विषहितुं स्थातुं सूर्योदयं बले
प्रह्लादमाहाथ बलिर्भाविकर्मप्रचोदितः
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः
निर्जित्य त्याजिताः स्वर्गं भग्नदर्पा रणाजिरे
स विप्रचित्तिर्बलवान् मम सैन्यपुरस्सरः
त्रिशिरा मकराक्षश्च वृषपर्वा नतेक्षमः
येषामेकैकशो विष्णुः कलां नार्हति षोडशीम्
धिग्धिगित्याह स बलिं वैकुण्ठाक्षेपवादिनम्
हरिं निन्दयतो जिह्वा कथं न पतिता तव
यत् त्रैलोक्यगुरुं विष्णुमभिनिन्दसि दुर्मते
यस्य त्वं कर्कशः पुत्रो जातो देवावमान्यकः
यता नान्यः प्रियः कश्चिन्मम तस्माज्जनार्दनात्
सर्वेश्वरेश्वरं देवं कथं निन्दितवानसि
ममापि पूज्यो भगवान् गुरुर्लोकगुरुर्हरिः
पूज्यं निन्दयसे पाप कथं न पतितो ऽस्यधः
येषां त्वं कर्कशो राजा वासुदेवस्य निन्दकः
तस्मात् पापसमाचरा राज्यनाशमवाप्नुहि
मनसा कर्मणा वाचा राज्यभ्रष्टस्तथा पत
चतुर्दशसु लोकेषु रपाज्यभ्रष्टस्तथा पत
यथा तथानुपस्येयं भवन्तं राज्यविच्युतम्
अवतीर्यासनाद् ब्रह्मन् कृताञ्जलिपुटो बली
कृतापराधानपि हि क्षमन्ति गुरवः शिशून्
न बिभेमि परेभ्यो ऽहं न च राज्यपरिक्षयात्
दुःखं कृतापराधत्वाद् भवतो मे महत्तरम्
कृते ऽपि दोषे गुरवः शिशूनां क्षमन्ति दैत्यं समुपागतानाम्
चिरं विचिन्त्याद्भुतमेतदित्थमुवाच पौत्रं मधुरं वचो ऽथ
येन सर्वगतं विष्णुं जानंस्त्वां सप्तवानहम्