यस्य सप्तार्णवाः कुक्षौ निवसन्ति सहाद्रिभिः
यथा च न मम क्लेशस्तथा कुरु जनार्दन
तथापि संभविष्यामि अहं देव्युदरे तव
धारयिष्यामि योगेन मा विषादं कुथाम्बिके
तदा निस्तेजसो दैत्याः सभविष्यन्त्यसंशयम्
स्वतेजसोंऽशेन विवेश देव्याः तदोदरे शक्रहिताय विप्र
निस्तेजसो ऽसुरा जाता यथोक्तं विश्वयोनिना
बलिर्दानवशार्दूल इदं वचनमब्रवीत्
कथ्यतां परमज्ञो ऽसि शुभाशुभविशारद
किमर्थं तेजसो हानिरिति कस्मादतीव च
चिन्तयामास योगात्मा क्व विष्णुः सांप्रतं स्थितः
नाबेरुपरि भूरादिल्लोकांश्चर्तुमियाद् वशी
मेरुं ददर्श शैलेन्द्रं शातकौम्भं महर्द्धिमत्
तेषामातुः स ददृशे मृगपक्षिगणैर्वृतम्
देवमातुः स ददृशे मृगपक्षिगणैर्वृतम्
विवेश दानवपतिरन्वेष्टुं मधुसूदनम्
सर्वभीतवरेण्यं तं देवमातुरथोदरे
सुरासुरगणैः सर्वैः सर्वतो व्याप्तविग्रहम्
दैत्यतेजोहरं विष्णुं प्रकृतिस्थो ऽभवत् ततः
प्रह्लादो मधुरं वाक्यं प्रणम्य मधुसूदनम्
येन निस्तेजसो दैत्या जाता दैत्येन्द्र हेतुना
प्रयाताः शरणं देवं हरिं त्रिभुवनेश्वरम्
अवतीर्णो महाबाहुरदित्या जठरे हरिः
नालं तमो विषहितुं स्थातुं सूर्योदयं बले
प्रह्लादमाहाथ बलिर्भाविकर्मप्रचोदितः
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः
निर्जित्य त्याजिताः स्वर्गं भग्नदर्पा रणाजिरे
स विप्रचित्तिर्बलवान् मम सैन्यपुरस्सरः
त्रिशिरा मकराक्षश्च वृषपर्वा नतेक्षमः
येषामेकैकशो विष्णुः कलां नार्हति षोडशीम्