यतिष्यामि तथा शक्र भावि श्रेयो यता तव
स्नातस्य देवस्य तदैनसो नरास्तं प्रोचुरस्माननुसासयस्व
वसध्वमेवान्तरमद्रिसुख्ययोर्हिमाद्रिकालिञ्जरयोः पुलिन्दाः
संपूज्यमानो ऽनुजगाम चमं मातुस्तदा धर्मनिवासमीड्यम्
प्रणम्य पादौ कमलोदराभौ निवेदयामास तपस्तदात्मनः
स चाचचक्षे बलिना रणे जयं तदात्मनो देवगणैश्च सार्धम्
दुःखान्विता देवमनाद्यमीड्यं जगाम विष्णुं शरणं वरेण्यम्
चराचरस्य प्रभवं पुराणमाराधयामास शुभे वद त्वम्
निराशना संयतवाक् सुचिता तदोपतस्थे शरणं सुरेन्द्रम्
जयस्व पापेन्धनजातवेदस्तमौघसंरोध नमो नमस्ते
त्वं कारणं सर्वचराचरस्य नाथो ऽसि मां पालय विश्वमूर्ते
अवाप्तावान् शत्रुपराभवं च ततो भवन्तं शरणं प्रपन्ना
संपूजयित्वा करवीरपुष्यैः संधूप्य धूपैः कणमर्कभोज्यम्
स्तवेन पुण्येन च संस्तुवन्ती स्थिता निराहारमथोपवासम्
दत्त्वा द्विजेभ्यः कणकं तिलाज्यं ततो ऽग्रतः सा प्रयता बभूव
विनिःसृत्ययाग्रतः स्थित्वा इदं वचनमब्रवीत्
प्राप्स्यसे दुर्लभं कामं मत्प्रसादान्न संशयः
दानवान् ध्वंसयिष्यामि संभूयैवोदरे तव
प्रोवाच जगतां योनिं वेपमाना पुनः पुनः
यस्योदरे जगत्सर्वं वसते स्थाणुजङ्गमम्
यस्य सप्तार्णवाः कुक्षौ निवसन्ति सहाद्रिभिः
यथा च न मम क्लेशस्तथा कुरु जनार्दन
तथापि संभविष्यामि अहं देव्युदरे तव
धारयिष्यामि योगेन मा विषादं कुथाम्बिके
तदा निस्तेजसो दैत्याः सभविष्यन्त्यसंशयम्
स्वतेजसोंऽशेन विवेश देव्याः तदोदरे शक्रहिताय विप्र
निस्तेजसो ऽसुरा जाता यथोक्तं विश्वयोनिना
बलिर्दानवशार्दूल इदं वचनमब्रवीत्
कथ्यतां परमज्ञो ऽसि शुभाशुभविशारद
किमर्थं तेजसो हानिरिति कस्मादतीव च