नाश्चर्य दानवश्रेष्ठ हिरण्यकशिपोः कुले
विशेषितस्त्वया राजन् दैतेयः प्रपितामहः
इत्येवमुक्त्वा वचनं दानवैन्द्रं तदा बलिम्
तस्यां चाथ प्रविष्टायां विधवा इव योषितः
प्रभा मतिः श्रमा भूतिर्विद्या नीतिर्दया तथा
ताः सर्वा बलिमाश्रित्य व्यश्राम्यन्त यथासुखम्
यज्वा तपस्वी मृदुरेव सत्यवाक् दाता विभर्ता स्वजनाभिगोप्ता
सदोज्ज्वलो धर्मरतो ऽथ दान्तः कामोपभोक्ता मनुजो ऽपि जातः
जगाम ब्रह्मसदनं सह देवैः शचीपतिः
ऋषिभिः सार्धमासीनं पितरं स्वं च कश्यपम्
ब्रह्माणं कश्यपं चैव तांश्च सर्वास्तपोधनान्
पितामह हृतं राज्यं बलिना बलिना मम
शक्रः पप्रच्छ भो ब्रूहि किं मया दुष्कृतं कृतम्
दित्युदरात् त्वया गर्भः कृत्तो वै बहुधा बलात्
कृन्तनं प्राप्तवान् गर्भो यदशौचा हि सा भवत्
गतस्ततो विनिहतो दासो ऽपि कुलिशेन भो
विनाशं पाप्मनो ब्रूहि प्रायश्चित्तं विभो मम
हितं सर्वस्य जगतः शक्रस्यापि विशेषतः
तं प्रपद्यस्व शरणं स ते श्रेयो विधास्यति
तमूचुर्देवता मर्त्ये स्वल्पकाले महोदयः
तथैव मित्रावरुणात्मजेन वेगान्महीपृष्ठमवाप्य तस्थौ
सुशस्थलात् पूर्वत एव विश्रुतो वसोः पुरात् पिश्चिमतो ऽवतस्थे
मनुष्येमेधः शतकृत्सहस्रकृन्नरेन्द्रसूयश्च सहस्रकृद् वै
ख्यातिं जगामाथ गदाधरेति महाघवृक्षस्य शितः कुठारः
फलं महामेधमखस्य मानवा लभन्त्यनन्त्यं भगवत्प्रसादात्
चक्रे जगत्पापविनष्टिमग्र्यां संदर्शनप्राशनमञ्जनेन
आराधनाय देवस्य कृत्वाश्रममवस्थितः
तपस्तेपे सहस्राक्षः स्तुवन् देवं गदाधरम्
कामक्रोधविहीनस्य साग्रः संवत्सरो गतः
गच्छ प्रीतो ऽस्मि भवतो मुक्तपापो ऽसि साम्प्रतम्