पप्रच्छ कासि मां ब्रूहि केनास्यर्थेन चागता
बले शृणुष्व यास्मि त्वामायाता महिषि बलात्
तेन त्यक्तस्तु मघवा ततो ऽहं त्वामिहागता
श्वेताम्बरधरा चैव श्वेतस्रगनुलेपना
रक्ताम्बरधरा चान्या रक्तस्रगनुलेपना
पीताम्बरा पीरवर्णा पीतमाल्यानुलेपना
नीलाम्बरा नीमाल्या नीलगन्धामनुलेपना
या सा श्वेताम्भरा श्वेता सत्त्वाढ्या कुञ्जरस्थिता
या रक्ता रक्तवसना वाजिस्था रजसान्विता
पीताम्बरा या सुभगा रथस्था कनकप्रभा
नीलवस्त्रालिसदृशी या चुर्थी वृषस्थिता
विप्राद्याः श्वेतरूपां तां कथयन्ति सरस्वतीम्
क्षत्रिया रक्तवर्णां तां जयश्रीमिति शंसिरे
वैश्यास्तां पीतवसनां कनकाङ्गीं सदैव हि
शूद्रास्तां नीलवर्णाङ्गीं स्तुवन्ति च सुभक्तितः
एवं विभक्तास्ता नार्यस्तेन देवेन चक्रिणा
इतिहासपुराणानि वेदाः साङ्गास्तथोक्तयः
मुक्तासुवर्णरजतं रथाश्वगजभूषणम्
गोमहिष्यः खरोष्ट्रं च सुवर्णाम्बरभूमयः
सर्वासामपि जातीनां जातिरेका प्रतिष्ठिता
भवन्ति सुरुषाणां वै तान् विबोध वदामि ते
भवन्ति दावनपते महापद्माश्रिता नराः
सर्वसामान्यसुखिनो नराः पद्माश्रिताः स्मृताः
न्यायान्यायव्ययोपेता महानीलाश्रिता नराः
स्तेयानृतकथायुक्ता नराः शङ्खश्रिता बले
इत्येवं कथितस्तुभ्यं तेषां दानव निर्णयः
ममास्ति दावनपते प्रतिज्ञा साधुसंमता
न चास्ति भवतस्तुल्यो त्रैलोक्ये ऽपि बलाधिकः
यत्त्वया युधि विक्रम्य देवराजो विनिर्जितः
दृष्ट्वा ते परमं सत्त्वं सर्वेभ्यो ऽपि बलाधिकम्