यद्युक्तं तन्महाबाहो वदस्वाद्योत्तरं वचः
प्राह धर्मार्थसंयुक्तं प्रह्लादो वाक्यमुत्तमम्
अविरोधेन धर्मस्य अर्थस्योपार्जनं च यत्
परत्रेह च यच्छ्रेयः पुत्र तत्कर्म आरच
यता नायशसो योगस्तथा कुरु महामते
येनैतानि गृहे ऽस्माकं निवसन्ति सुनिर्वृताः
वृद्धो ज्ञातिर्गुणी विप्रः कीर्तीश्च यशसा सह
तथा यत्स्वामलसत्त्वचेष्ट यथा यशस्वी भवितासि लोके
शुश्रुषणासक्तसमुद्भवाया मृद्धिं प्रयान्तीह नराधिपेन्द्राः
तस्माद् द्विजाग्र्याः श्रुतिशास्त्रयुक्ता नराधिपांस्ते क्रतुभिर्द्विजेन्द्रा यज्ञाग्निधूमेन नृपस्य शान्तिः
क्षत्रियाः सन्तु दैत्येन्द्र प्रजापालनधर्मिणः
पाशुपाल्यं प्रकुर्वन्तु वेश्या विपणिजीविनः
शूद्राः सन्त्वसुरश्रेष्ठ तवाज्ञाकारिणः सदा
धर्मवृद्धिस्तदा स्याद्वै धर्मवृद्धौ नृपोदयः
तद्वृद्धौ भवतो वृद्धिस्तद्वानौ हानिरुच्यते
ततो यदाज्ञापयसे करिष्ये इत्थं बलिः प्राह वचो महर्षे
त्रैलोक्यं पालयामास बलिर्धर्मान्वितः सदा
ब्रह्माणं शरणं भेजे स्वभावस्य निषेणात्
स्वदीप्त्या द्योतयन्तं च स्वदेशं ससुरासुरम्
मम स्वभावो बलिना नाशितो देवसत्तम
न केवलं हि भवतो हृतं तेन बलीयसा
भास्करो ऽपि हि दीनत्वं प्रयातो हि बलाद् बलेः
ऋते सहस्रं शिरसं हरिं दशशताङ्घ्रिकम्
समाहरिष्यति बलेः कर्तुः सद्धर्मगोचरम्
दीनान् दृष्ट्वा स शक्रादीन् विभीतकवनं गतः
धर्मो ऽभवच्चतुष्पादश्चातुर्वर्ण्ये ऽपि नारद
दया दानं त्वानृशंस्यं शुश्रुषा यज्ञकर्म च
बलिना बलवान् ब्रह्मन् तिष्यो ऽपि हि कृतः कृतः
प्रजापालनधर्मस्थाः सदैव मनुजर्षभाः
त्रैलोक्यलक्ष्मीर्वरदा त्वायाता दानवेश्वरम्