युयुधुर्दानवैः सार्धं विष्णुस्त्वन्तरधीयत
गदामादाय देजस्वी देवसैन्यमभिद्रुतः
देवसैन्यमभिद्रुत्य निजघान सहस्रशः
योधयामास बलावान् सुराणां च वरूछिनीम्
विपाको विक्षरः सैन्यं ते ऽपि देवानुपाद्रवन्
गते जनार्दने देवे प्रायशो विमुख्याभवन्
पृष्ठतश्चाद्रवन् सर्वे त्रैलोक्यविजिगीषवः
त्रिविष्टपं परित्यज्य ब्रह्मलोकमुपागताः
स्वर्गभोक्ता बलिर्जातः सपुत्रभ्रातृबान्धवः
वरुणो ऽभून्मयः सोमो राहुर्ह्लोदो हुताशनः
ये ऽन्ये ऽप्यधिकृता देवास्तेषु जाताः सुरारयः
देवासुरो ऽभूत् संग्रामो यत्र शक्रो ऽप्यभूद् बलिः
भूर्भुवःस्वरिति ख्यातं दशलोकाधिपो बलिः
तत्रोपासन्त गन्धर्वा विश्वावसुपुरोगमाः
वादयन्ति च वाद्यानि यक्षविद्याधरादयः
सस्मार मनसा ब्रह्मन् प्रह्लादं स्वपितामहम्
समभ्यागात् त्वरायुक्तः पातालात् स्वर्गमव्ययम्
कृताञ्जलिपुटो भूत्वा ववन्दे चरणावुभौ
समुत्थाप्य परिष्यवज्य विवेश परमासने
निर्जिताः शक्रराज्यं च हृतं वीर्यबलान्मया
त्रैलोक्यराज्यं भुञ्ज त्वं मयि भृत्ये पुरःस्थिते
त्वदङ्घ्रिपूजाभिरतस्त्वदुच्छिष्टान्नभोजनः
या धृतिर्गुरुशुश्रुषां कुर्वतो जायते विभो
प्रह्लादः प्राह वचनं धर्मकामार्थसाधनम्
दत्तं यथेष्टं जनिनास्तथात्मजाः स्थितो बले सम्प्रति योगसाधकः
एवं भव गुरूणां त्वं सदा सुश्रूषणे रतः
शाक्रे सिंहासने ब्रह्मन् बलिं तूर्णं न्यवेशयत्
सिंहहासने दैत्यपतिः शुशुभे मघवानिव
प्रह्लादं प्राह वचनं मेघगम्भीरया गिरा
धर्मार्थकाममोक्षेभ्यस्तदादिशतु मे भवान्