मन्मुष्टिपिष्टशिथिलाङ्गमुपात्तभस्म संद्रक्ष्यते सुरजनो भयकातराक्षः
गदां खगेन्द्रोपरि जातकोपो मुमोच शैले कुलिशं यथेन्द्रः
चक्रेण चिच्छेद सुदुर्गतस्य मनोरथं पूर्वकृतेन कर्म
भुजाभ्यां कृत्ताभ्यां दग्धशैलप्रकाशः संदृश्येताप्यपरः कालनेमि
छित्त्वा निपातयामास पक्वं तालफलं यथा
तस्थौ मेरुरिवाकम्प्यः कबन्धः क्ष्माधरेश्वरः
यथाम्बराद् बाहुशिरः प्रणष्टबलं महेन्द्रः कुलिशेन भूम्याम्
विमुक्तशस्त्रालकचर्मवस्त्राः संप्राद्रवन् बाणमृते ऽसुरेन्द्राः
निवृत्ता देवतानां च सशस्त्रा युद्धलालसाः
प्राहामन्त्र्य सुरान् सर्वान् युध्यध्वं विगतज्वराः
युयुधुर्दानवैः सार्धं विष्णुस्त्वन्तरधीयत
गदामादाय देजस्वी देवसैन्यमभिद्रुतः
देवसैन्यमभिद्रुत्य निजघान सहस्रशः
योधयामास बलावान् सुराणां च वरूछिनीम्
विपाको विक्षरः सैन्यं ते ऽपि देवानुपाद्रवन्
गते जनार्दने देवे प्रायशो विमुख्याभवन्
पृष्ठतश्चाद्रवन् सर्वे त्रैलोक्यविजिगीषवः
त्रिविष्टपं परित्यज्य ब्रह्मलोकमुपागताः
स्वर्गभोक्ता बलिर्जातः सपुत्रभ्रातृबान्धवः
वरुणो ऽभून्मयः सोमो राहुर्ह्लोदो हुताशनः
ये ऽन्ये ऽप्यधिकृता देवास्तेषु जाताः सुरारयः
देवासुरो ऽभूत् संग्रामो यत्र शक्रो ऽप्यभूद् बलिः
भूर्भुवःस्वरिति ख्यातं दशलोकाधिपो बलिः
तत्रोपासन्त गन्धर्वा विश्वावसुपुरोगमाः
वादयन्ति च वाद्यानि यक्षविद्याधरादयः
सस्मार मनसा ब्रह्मन् प्रह्लादं स्वपितामहम्
समभ्यागात् त्वरायुक्तः पातालात् स्वर्गमव्ययम्
कृताञ्जलिपुटो भूत्वा ववन्दे चरणावुभौ
समुत्थाप्य परिष्यवज्य विवेश परमासने
निर्जिताः शक्रराज्यं च हृतं वीर्यबलान्मया