प्रयाति दक्षिणं घोरं तारकाख्यो भयङ्करः
उवाच याम दैत्यांस्तान् योद्धुं सबलसंयुतान्
समारुरोह भगवान् यतमातलिवाजिनम्
स्वं स्वं वाहनमारुह्य निश्चेरुर्युद्धकाङ्क्षिमः
विद्याधरा गुह्यकाश्च यक्षराक्षसपन्नगाः
गजानन्ये रथानन्ये हयानन्ये समारुहन्
समारुह्याद्रवन् सर्वे यतो दैत्यबलं स्थितम्
एतस्मिन् विष्णुः सुरश्रेष्ठ अधिरुह्य समभ्यगात्
ववन्द मूर्ध्नावनतः सह सर्वैः सुरोत्तमैः
पालयञ्जघनं विष्णुर्याति मध्ये सहस्रदृक्
दक्षिणं वरुणः पार्श्वमवष्टभ्याव्रजद् बली
नानास्त्रशस्त्रोद्यतदोःसमूहा समाससादारिबलं महीध्रे
निर्वृक्षे पक्षिरहिते जातो देवासुरो रणः
महीधरोत्तमे पूर्वं यथा वानरहस्तिनोः
संद्यानुरक्तः सदृशो मेघः खे सुरतापस
श्रूयते त्वनिशं शब्दः छिन्धि भिन्धीति सर्वतः
जातो रुधिरनिष्यन्दो रजःसयमनात्मकः
अभिद्रवन्ति सहिताः समं स्कन्देन धीमता
देवान् निजघ्नुर्दैत्याश्च मयगुप्ताः प्रहारिणः
निर्जिताः समरे दैत्यैः समं स्कन्देन नारद
शार्ङ्गमानम्य बाणैघैर्निजघान ततस्ततः
दैतेयाः शरणं जग्मुः कालनेमिं महासुराम्
विवृद्धिमगमद् ब्रह्मन् यथा व्याधिरुपेक्षितः
तं तमादाय चिक्षेप विस्तृते वदने बली
चक्रैर्वैश्वानराभैस्त्ववनिगगनयोस्तिर्यगूर्ध्वं समन्तात् प्राप्ते ऽन्ते कालवह्नेर्जगदखिलमिदं रूपमासीद् दिधक्षोः
पोप्लूयन्तश्च दैत्या हरिममरगणैरर्चितं चारुमौलिं नानाशस्त्रास्त्रपातैर्विगलितयशसंचक्रुरुत्सिक्तदर्पाः
कोपादारक्तदृष्टिः सरथगजहयान् दृष्टिनिर्धूतवीर्यान् नाराचख्यैः सुपुङ्खैर्जलद् इव गिरीन् छादयामास विष्णुः
प्रारम्बे दानवेन्द्रं शतवदनमथो प्रेषयन् कालनेमिं स प्रायाद् देवसैन्यप्रभुममितबलं केशवं लोकनाथम्
सो ऽप्येनं प्रसमीक्ष्य दैत्यविटपप्रच्छेदनं मानिनं प्रोवाचाथ विहस्य तं च सुचिरं मेघस्वनो दानवः
हिरण्यनयनान्तकः कुसुमपूजारतिः क्व याति मम दृष्टिगोचरे निपतितः खलः