मा मा क्षिपस्वेत्यभवच्छब्दः सो ऽपि मृतो नृपः
शिशवः समजायन्त ते रुदन्तो ऽभवन् मुने
समागम्य निवार्य्याथ स चक्रे मरुतः सुतान्
ये ऽभवन् रैवते तांश्च शृणुष्व त्वं तपोधनः
रिपुजिन्नामतः ख्यातो न तस्यासीत् सुतः किल
अवाप कन्यां सुरतिं तां प्रगृह्य गृहं ययौ
सापि दुःखपरीताङ्गीं स्वां तनुं त्यक्तुमुद्यता
तस्यामासक्तचित्तास्तु सर्व एव तपोधनाः
ते चापश्यन्त ऋषयस्तच्चित्ता भावितास्तथा
प्रजग्मुर्ज्वलनाच्चापि सप्ताजायन्त दारकाः
निवारयित्वा कृतवांल्लोकनाथो मरुद्गणान्
शृणुष्व कीर्तयिष्यामि चाक्षुषस्यान्तरे मनोः
सप्तसारस्वते तीर्थे सो ऽतप्यत महत् तपः
सा चाभ्येत्य नदीतीरे क्षोभयामास भामिनी
तां चैवाप्यशपन्मूढां मुनिर्मङ्कणको वपुम्
विध्वंसयिष्यति हयो भवतीं यज्ञसंसदि
सरस्वतीभ्यः सप्तभयः सप्त वै मरुतो ऽभवन्
येषां श्रुते जन्मनि पापहानिर्भवेच्च धर्माभ्युदयो महान् वै
मन्त्रप्रदाता प्रह्लादः शुक्रश्चासीत् पुरोहितः
दिदृक्षवः समायाताः समयाः सर्व एव हि
पप्रच्छ कुलजान् सर्वान् किंनु श्रेयस्करं मम
यत् ते श्रेयस्करं कर्म यदस्माकं हितं तथा
हिरण्यकशिपुर्वीरः स शक्रो ऽभूज्जगत्त्रये
प्रत्यक्षं दानवेन्द्राणां नखैस्तं हि व्यदारयत्
तेषामर्थे महाबाहो शङ्करेम त्रिशूलिना
कुजम्भो विष्णुना चापि प्रत्यक्षं पशुवत् तव
विरोचनस्तव पिता निहतः कथयामि ते
उद्योगं कारयामास सह सर्वैर्महासुरैः
पदातयस्तथैवान्ये जग्मुर्युद्धाय दैवतैः
सैन्यस्य मध्ये च बलिः कालनेमिश्च षृष्ठतः