मा रुदध्वमितीत्याह मरुतो नाम पुत्रकाः
इत्येवमुक्त्वाथादाय सर्वास्तान् दैवतान् प्रति
एवमासंश्च मरुतो मनोः स्वारोचिषे ऽन्तरे
उत्तमस्यान्ववाये तु राजासीन्निषधाधिपः
तस्य पुत्रो गुणश्रेष्ठो ज्योतिष्मान् धार्मिको ऽभवत्
तस्य भार्या च सुश्रोणी देवाचार्यासुता शुभा
सा स्वयं फलपुष्पाम्बुसमित्कुशं समाहरत्
पतिं शुश्रूषमाणा सा कृशा धमनिसंतता
तां तथा चारुसर्वाङ्गीं दृष्ट्वाथ तपसा कृसाम्
साब्रवीत् तनयार्थाय आवाभ्यां वै तपःक्रिया
व्रजध्वं तनयाः सप्त भविष्यन्ति न सशं यः
इत्येवमुक्त्वा जग्मुस्ते सर्व एव महर्षयः
ततो बहुतिथे काले सा राज्ञो महिषी प्रिया
गुर्विण्यामथ भार्यायां ममारासौ नराधिपः
निवारिता तदामात्यैर्न तथापि व्यतिष्ठता
ततो ऽग्निमध्यात् सलिले मांसपेश्यपतन्मुने
ते ऽजायन्ताथ मरुत उत्तमस्यान्तरे मनोः
तानहं कीर्तयिष्यामि गीतनृत्यकलिप्रिय
स पुत्रर्थो जुहावाग्नौ स्वमांसं रुधिरं तथा
शुक्रं च चित्रगौ राजा सुतार्थो इति नः श्रुतम्
मा मा क्षिपस्वेत्यभवच्छब्दः सो ऽपि मृतो नृपः
शिशवः समजायन्त ते रुदन्तो ऽभवन् मुने
समागम्य निवार्य्याथ स चक्रे मरुतः सुतान्
ये ऽभवन् रैवते तांश्च शृणुष्व त्वं तपोधनः
रिपुजिन्नामतः ख्यातो न तस्यासीत् सुतः किल
अवाप कन्यां सुरतिं तां प्रगृह्य गृहं ययौ
सापि दुःखपरीताङ्गीं स्वां तनुं त्यक्तुमुद्यता
तस्यामासक्तचित्तास्तु सर्व एव तपोधनाः
ते चापश्यन्त ऋषयस्तच्चित्ता भावितास्तथा
प्रजग्मुर्ज्वलनाच्चापि सप्ताजायन्त दारकाः