एताभ्यां भर्तृपूजासु तच्चिन्तासु स्थितं मनः
तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः
अनुडजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम्
क्रोधान्विताब्रुवन्सर्वे लिङ्गे ऽस्य पततां भुवि
अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः
रसातलं विवेशाशु ब्रह्मण्डं चोर्ध्वतो ऽभिनत्
पातालभुवनाः सर्वे जङ्गमाजङ्गमैर्वृताः
जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम्
उवाच देव भुवनाः किमर्थ क्षुभिता विभो
पातितस्तस्य भारार्ता संचचाल वसुंधरा
तत्र गच्छाम देवेश एवमाह पुनः पुनः
आजग्मतुस्तमुद्देशं यत्र लिङ्गं भवस्य तत्
पातालं प्रविवेशाथ विस्मयान्तरितो विभुः
नैवान्तमलभद् ब्रह्मन् विस्मितः पुनरागतः
चक्रपाणिर्विनिष्क्रान्तो लेभे ऽन्तं न महामुने
कृताञ्जलिपुटौ भूत्वा स्तोतुं देवं प्रचक्रतुः
जीमूतवाहन कवे शर्व त्र्यम्बक शङ्कर
दक्षयज्ञक्षयकर कालरूप नमो ऽस्तु ते
भवानन्तश्च भगवान् सर्वगस्त्वं नमो ऽस्तु ते
स्वरूपी ताविदं वाक्यमुवाच वदतां वरः
मां स्तुवाते भृशास्वस्थं कामतापितविग्रहम्
एतत् प्रगृह्यतां भूय अतो देव स्तुवावहे
तदेतत्प्रतिगृह्णीयां नान्यथेति कथञ्चन
ब्रह्म स्वयं च जग्राह लिङ्गं कनकपिङ्गलम्
तृतीयं कालवदनं चतुर्थं च कपालिनम्
तस्य शिष्यो बभूवाथ गोपायन इति श्रुतः
तस्य शिष्यो ऽप्यभूद्राजा ऋषभः सोमकेश्वरः
तस्य शिष्योभवद्वैश्यो नाम्ना क्राथेश्वरो मुने
कर्णोदर इति ख्यातो जात्या शूद्रो महातपाः
कृत्वा तु चातुराश्रम्यं स्वमेव भवनं गतः