शोचाम्येनं पार्थिवं पुत्रहीनं नैवात्मानं मन्दभाग्यं विहङ्ग
भविष्यन्ति वह्निमारोह शीघ्रं सत्यं प्रोक्तं श्रद्दधत्स्व त्वमद्य
हुताशमासाद्य पतिव्रता तं संचिन्तयन्ती ज्वलनं प्रवनन्ना
खमुत्पपाताथ स कामचारी समं महिष्या च सुनाभपुत्र्या
स दिव्ययोगात् प्रतिसंस्थितो ऽम्बरे भार्यासहायो दिवसानि पञ्च
रराम तन्व्या सह कामचारी ततो ऽम्बरात् प्राच्यवतास्य शुक्रम्
चित्रा विशाला हरितालिनी च सप्तर्षिपत्न्यो ददृशुर्यथेच्छया
मन्यमानास्तदमृतं सदा यौवनलिप्सया
पतिभिः समनुज्ञाताः पपुः पुष्करसंस्थितम्
पीतमात्रेण शुक्रेण पार्थिवेन्द्रोद्भवेन ताः
ततस्तु तत्यजुः सर्वे सदोषास्ताश्च पत्नयः
तेषां रुदितशब्देन सर्वमापूरितं जगत्
समभ्येत्याब्रवीद् बालान् मा रुदध्वं महाबलाः
इत्येवमुक्त्वा देवेशो ब्रह्म लोकपितामहः
ते त्वासन् मरुतस्त्वाद्या मनोः स्वायंभुवे ऽन्तरे
स्वारोचिषस्य पुत्रस्तु श्रीमानासीत् क्रतुध्वजः
तपोर्ऽथं ते गताः शैलं महामेरुं नरेश्वराः
ततो विपश्चिन्नामाथ सहस्राक्षो भयातुरः
गच्छस्व पूतने शैलं महामेरुं विशालिनम्
यथा हि तपसो विघ्नं तेषां भवति सुन्दरि
इत्येवमुक्ता शक्रेण पूतना रूपशालिनी
आश्रमस्याविदूरे तु नदी मन्दोदवाहिनी
सापि स्नातुं सुचार्वङ्गी त्ववतीर्णा महानदीम्
तेषां च प्राच्यवच्छुक्रं तत्पपौ जलचारिणी
ते ऽपि विभ्रष्टतपसो जग्मू राज्यं तु षैतृकम्
ततो बहुतिथे काले सा ग्राही शङ्खरूपिणी
स तां दृष्ट्वा महाशङ्खी स्थलास्थां मत्स्यजीविकः
तथाभ्येत्य महात्मानो योगिनो योगधारिणः
ततः प्रमाच्छङ्खिनी सी सुषुवे सप्त वै शिशून्
अमातृपितृका बाला जलमध्यविहारिणः