हते हिरण्यकशिपौ यच्चकारारिमर्दनः
विभो नाथो ऽसि मे देहि शक्रहन्तारमात्मजम्
शौचाचारसमायुक्ता स्थास्यसे दशतीर्दश
जनयिष्यसि पुत्रं त्वं शत्रुघ्नं नान्यथा प्रिये
गर्भाधानं ऋषिः कृत्वा जगामोदयपर्वतम्
तमाश्रममुपागम्य दितिं वचनमब्रवीत्
बाञमित्यब्रवीद् देवी भाविकर्मप्रचोदिता
विनीतात्मा च कार्यार्था छिद्रान्वेषी भुजङ्गवत्
दशवर्षशतान्ते तु शिरःस्नाता तपस्विनी
सुष्वाप केशप्रान्तैस्तु संश्लिष्टचरणाभवत्
विवेश मातुरुदरं नासारन्ध्रेण नारद
ददर्शोर्ध्वमुकं बालं कटिन्यस्तकरं महत्
शुद्धस्फटिकसंकाशां कराभ्यां जगृहे ऽथ ताम्
कराभ्यं मर्दयामास ततः सा कठिनाभवत्
शतपर्वाथ कुलिशः संजातो मांसपेशितः
चिच्छेद सप्तधा ब्रह्मन् स रुरोद च विस्वरम्
शुश्राव वाचं पुत्रस्य रुदमानस्य नारद
इत्येवमुक्त्वा चैकैकं भूयश्चिच्छेद सप्तधा
दितिं कृताञ्जलिपुटः प्राह भीतस्तु शापतः
तवैवापनयाच्छस्तस्तन्मे न क्रोद्धमर्हसि
संपूर्णे त्वपि काले वै या शौचत्वमुपागता
देवाराज्ञा सहैतांस्तु प्रेषयामास भामिनि
बिभेद वज्रेण ततः स गोत्रभित् ख्यातो महर्षे भगवान् महेन्द्रः
तत् केन पूर्वमासन् वै मरुन्मार्गेण कथ्यताम्
के त्वासन् वायुमार्गस्थास्तन्मे व्याख्यातुमर्हसि
स्वायंभुवं समारभ्य यावन्मन्वन्तरं त्विदम्
तस्यासीत् सवनो नाम पुत्रस्त्रैलोक्यपूजितः
ततो ऽरुदत् तस्य पत्नी सुदेवा शोकविह्वला
नाथ नातेति बहुशो विलपन्ती त्वनाथवत्
यद्यस्ति ते सत्यमनुत्तमं तदा भवत्वयं ते पतिना सहाग्निः