कृत्वैव रूपं भयदं च भैरवं भृङ्गित्वमीसेन कृतं स्वभक्त्या
संकीर्तनीयं द्विजसत्तमेषु धर्मायुरारोग्यधनैषिणा सदा
निष्पादितं स्वकं कार्यं तन्मे व्याख्यातुमर्हसि
कृतं लोकहितं ब्रह्मन्नात्मनश्च तथा हितम्
ते निर्जिताः सुरगणैः पातालगमनोत्सुकाः
लतावितासंछन्नं मत्तसत्त्वसमाकुलम्
माधवीकुसुमामोदं ऋष्यर्चितहरं गिरिम्
मयतारपुरोगास्ते निवासं समरोचयन्
विवाति शीतः शनकैर्दक्षिणो गन्धसंयुतः
कुर्वन्तो लोकसंपूज्ये विद्धेषं देवतागणे
स चापि ददृशे गच्छन् पथि गोमातरं हरिः
ददृशे दानवान् सर्वान् संहृष्टान् भोगसंयुतान्
ते चाप्याययुरव्यग्रा विकिरन्तः शेरोत्करान्
छादयामास विप्रर्षे गिरीन् वृष्ट्या यथा घनः
पाकं जघान तीक्ष्णाग्रैर्मार्गणैः कङ्गवाससैः
पाकशासनतां शक्रः सर्वामरपतिर्विभुः
सुपुङ्खैर्दारयामास ततो ऽभूत् स पुरन्दरः
तच्चापि विजितं ब्रह्मन् रसातलमुपागमत्
त्र्यम्बकेन मुनिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि
एष मे संशयो ब्रह्मन् हृदि संपरिवर्तते
हते हिरण्यकशिपौ यच्चकारारिमर्दनः
विभो नाथो ऽसि मे देहि शक्रहन्तारमात्मजम्
शौचाचारसमायुक्ता स्थास्यसे दशतीर्दश
जनयिष्यसि पुत्रं त्वं शत्रुघ्नं नान्यथा प्रिये
गर्भाधानं ऋषिः कृत्वा जगामोदयपर्वतम्
तमाश्रममुपागम्य दितिं वचनमब्रवीत्
बाञमित्यब्रवीद् देवी भाविकर्मप्रचोदिता
विनीतात्मा च कार्यार्था छिद्रान्वेषी भुजङ्गवत्
दशवर्षशतान्ते तु शिरःस्नाता तपस्विनी
सुष्वाप केशप्रान्तैस्तु संश्लिष्टचरणाभवत्