समायातं निरीक्ष्यैव सर्वलक्षणसंयुतम्
समाहूताश्च देव्या ता जयाद्यास्तूर्ममागमन्
ततस्त्रिनेत्रो गिरिजां दृष्ट्वा प्रेक्ष्य च दानवम्
अथोवाचैष दासस्ते कृतो देवि मयान्धकः
इत्युच्चार्यान्धकं चैव पुत्र पह्येहि सत्वरम्
इत्युक्तो विभुना नन्दी अन्धकश्च गणेश्वरः
स्तुतिं चक्रे महापुण्यां पापघ्नीं श्रुतीसंमिताम्
प्राह पुत्र प्रसन्नास्मि वृणुष्व परमुत्तमम्
तथेश्वरे च सततं भक्तिरस्तु ममाम्विके
स चास्ते पूजयञ्शर्वं गणानामधिपो ऽभवत्
कृत्वैव रूपं भयदं च भैरवं भृङ्गित्वमीसेन कृतं स्वभक्त्या
संकीर्तनीयं द्विजसत्तमेषु धर्मायुरारोग्यधनैषिणा सदा
निष्पादितं स्वकं कार्यं तन्मे व्याख्यातुमर्हसि
कृतं लोकहितं ब्रह्मन्नात्मनश्च तथा हितम्
ते निर्जिताः सुरगणैः पातालगमनोत्सुकाः
लतावितासंछन्नं मत्तसत्त्वसमाकुलम्
माधवीकुसुमामोदं ऋष्यर्चितहरं गिरिम्
मयतारपुरोगास्ते निवासं समरोचयन्
विवाति शीतः शनकैर्दक्षिणो गन्धसंयुतः
कुर्वन्तो लोकसंपूज्ये विद्धेषं देवतागणे
स चापि ददृशे गच्छन् पथि गोमातरं हरिः
ददृशे दानवान् सर्वान् संहृष्टान् भोगसंयुतान्
ते चाप्याययुरव्यग्रा विकिरन्तः शेरोत्करान्
छादयामास विप्रर्षे गिरीन् वृष्ट्या यथा घनः
पाकं जघान तीक्ष्णाग्रैर्मार्गणैः कङ्गवाससैः
पाकशासनतां शक्रः सर्वामरपतिर्विभुः
सुपुङ्खैर्दारयामास ततो ऽभूत् स पुरन्दरः
तच्चापि विजितं ब्रह्मन् रसातलमुपागमत्
त्र्यम्बकेन मुनिश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि
एष मे संशयो ब्रह्मन् हृदि संपरिवर्तते