दासो ऽस्मि तुभ्यं हर पाहि मह्यं पापक्षयं मे कुरु लोकनाथ
त्रय्यारुणिस्त्रितिव्ययात्मन् पुनीहि मां त्वां शरणं गतो ऽस्मि
त्रैलोक्यनाथो ऽसि पुनीहि शंभो दासो ऽस्मि भीतः शरणागतस्ते
कामारिणा निर्जितमानसेन प्रसादये त्वां शिरसा नतो ऽस्मि
त्राहि मां देव ईशान सर्वपापहरो भव
सृष्टः पापसमाचारो मे प्रसन्नो भवेश्वर
त्वं मङ्गल्यस्त्वमोङ्कारस्त्वमीशानो ध्रुवो ऽव्ययः
त्वमिन्द्रस्त्वं वषट्कारो धर्मस्त्वं च सुरोत्तमः
त्वया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम्
विजयस्त्वं सहस्राक्षो विरूपाक्षो महाभुजः
गीर्वाणपतिरव्यग्रो रुद्रः पशुपतिः शिवः
जयश्च शूलपाणिस्त्वं त्राहि मां शरणागतम्
प्रीतियुक्तः विङ्गलाक्षो हैरण्याक्षिमुवाच ह
वरं वरय भद्रं ते यमिच्छसि विनाम्बिकाम्
वन्दामि चरणौ मातुर्वन्दनीया ममाम्बिका
शारीरं मानसं वाग्जं दुष्कृतं दुर्विचिन्तितम्
स्थिरास्तु त्वयि भक्तिस्तु वरमेतत् प्रयच्छ मे
मुक्तो ऽसि दैत्यभावाच्च भृङ्गी गणपतिर्भव
निर्मार्ज्य निजहस्तेन चक्रे निर्व्रणमन्धकम्
ते निश्चेरुर्महात्मानो नमस्यन्तस्त्रिलोचनम्
भृङ्गिनं दर्शयामास ध्रुवं नैषो ऽन्धकति हि
गणाधिपत्यमापन्नं प्रशशंसुर्वृषध्वजम्
गच्छध्वं स्वानि धिष्ण्यानि भुञ्जध्वं त्रिदिवं सुखम्
तत्र स्वकार्यं कृत्वैव पश्चाद् यातु त्रिविष्टपम्
ते विसृष्टा महेशेन सुरा जग्मुस्त्रक्षिविष्टपम्
गतेषु शक्रपाग्र्येषु देवेषु भगवाञ्चिशवः
गणाश्च शङ्करं दृष्ट्वा स्वं स्वं वाहनमास्थिताः
यत्र कामदुधा गावः सर्वकामफलद्रुमाः
स्वां स्वां गतिं प्रयातेषु प्रमथेषु महेश्वरः
द्वाभ्यां वर्षसहस्राभ्यां पुनरागाद्वरो गृह्म्