सोमराजेति विख्यातश्चक्रमालाविभूषितः
स्वच्छन्दराजो विख्यातः इन्द्रायुधसमप्रभः
ख्यातो ललितराजेति सौभाञ्जनसमप्रभः
विघ्नराजो ऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते
छत्रवद् धारितो ब्रह्मन् भैरवेण त्रिशुलिना
येनाकष्ठं महादेवो निमग्नः सप्तमूर्तिमान्
ललाटफलके तस्माज्जाता कन्यासृगाप्लुता
तस्मादङ्गरपुञ्जाभो बालकः समजायत
कन्या चोत्कृत्य संजातमसृग्विलिलिहे ऽद्भुता
शङ्करो वरदो लोके श्रेयोर्ऽथाय वचो महत्
यक्षविद्याधराश्चैव मानवाश्च शुभङ्करि
चर्च्चिकेति सुभं नाम यस्मादा रुधिरचर्चिता
महीं समन्ताद् विचचार सुन्दरी स्थानं गता हैङ्गुलताद्रिमुत्तमम्
ग्रहाधिपत्यं जगातां शुभाशुभं भविष्यति त्वद्वरागं महात्मन
चकार संशुष्कतनुं त्वशोणितं त्वगस्थिशेषं भगवान् स भैरवः
ततः प्रजानां बहुरूपमीशं नाथं हि सर्वस्य चराचरस्य
सर्वैः सुराद्यैर्नतमीड्यमाद्यं ततो ऽन्धकः स्तोत्रमिदं चकार
विंशार्द्धबाहो भुजगेशहार त्रिनेत्र मां पाहि विपन्नबुद्धिम्
त्रैलोक्यमातुर्गुरवे वृषाङ्क भीतः शरण्यं शरणागतो ऽस्मि
भीमं च यक्षा मनुजा महेश्वरं भूताश्च भूताधिपमामनन्ति
दासो ऽस्मि तुभ्यं हर पाहि मह्यं पापक्षयं मे कुरु लोकनाथ
त्रय्यारुणिस्त्रितिव्ययात्मन् पुनीहि मां त्वां शरणं गतो ऽस्मि
त्रैलोक्यनाथो ऽसि पुनीहि शंभो दासो ऽस्मि भीतः शरणागतस्ते
कामारिणा निर्जितमानसेन प्रसादये त्वां शिरसा नतो ऽस्मि
त्राहि मां देव ईशान सर्वपापहरो भव
सृष्टः पापसमाचारो मे प्रसन्नो भवेश्वर
त्वं मङ्गल्यस्त्वमोङ्कारस्त्वमीशानो ध्रुवो ऽव्ययः
त्वमिन्द्रस्त्वं वषट्कारो धर्मस्त्वं च सुरोत्तमः
त्वया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम्
विजयस्त्वं सहस्राक्षो विरूपाक्षो महाभुजः