निमिषान्तरमात्रेण गदया विनिपोथयत्
शक्त्या विभिन्नहृदयं गतासुं व्यसृजद् भुवि
सध्वजाक्षं रथं तूर्णमभञ्जन्त तपोधनाः
गदामादाय बलवानभिदुद्राव दैवतान्
स्थित्वा प्रोवाच दैत्येन्द्रो महादेवं स हेतुमत्
तथापि त्वां विजेष्यामि पश्य मे ऽद्य पराक्रमम्
ब्रह्मणा सहितान् सर्वान् स्वशरीरे न्यवेशयत्
प्राह एह्येहि तुष्टात्मन् अहमेको ऽपि संश्थितः
दैत्यः शङ्करमभ्यागाद् गदामादाय वेगवान्
शूलपाणिर्गिरिप्रस्थे पदातिः प्रत्यतिष्ठत
दारुणं सुमहद् रूपं कृत्वा त्रैलोक्यभीषणम्
भुजङ्गहारामलकण्ठकन्दरं विंशार्धबाहुं सषडर्धलोचनम्
बिभेद शत्रुं शूलेन शुभदः शाश्वतः शिवः
विजहारातिवेगेन क्रोशमात्रं महामुने
तूर्णमुत्पाटयामास शूलेन सगदं रिपुम्
कराभ्यां गृह्य शूलं च समुत्पतत दानवः
गदापातक्षताद् भूरि चतुर्धासृगथापतत्
विद्याराजेति विख्यातः पद्ममालाविभूषितः
कालराजेति विख्यातः कृष्णाञ्जनसमप्रभः
अतसीकुसुमप्रख्यः कामराजेति विश्रुतः
सोमराजेति विख्यातश्चक्रमालाविभूषितः
स्वच्छन्दराजो विख्यातः इन्द्रायुधसमप्रभः
ख्यातो ललितराजेति सौभाञ्जनसमप्रभः
विघ्नराजो ऽष्टमः प्रोक्तो भैरवाष्टकमुच्यते
छत्रवद् धारितो ब्रह्मन् भैरवेण त्रिशुलिना
येनाकष्ठं महादेवो निमग्नः सप्तमूर्तिमान्
ललाटफलके तस्माज्जाता कन्यासृगाप्लुता
तस्मादङ्गरपुञ्जाभो बालकः समजायत
कन्या चोत्कृत्य संजातमसृग्विलिलिहे ऽद्भुता
शङ्करो वरदो लोके श्रेयोर्ऽथाय वचो महत्