विष्णुः कुजम्भं निजघान वेगात् स स्यन्दनाद् गामगमद् गतासुः
क्रोधान्वितः शक्रमुपाद्रवद् रणे सिंहं यतैणो ऽतिविपन्नबुद्धिः
जग्राह शक्तिं यमदण्डकल्पां तामग्निदत्तां रिपवे ससर्ज
गदां च कृत्वा सहसैव भस्मसाद् बिभेद जम्भं हृदये च तूर्णम्
तं वीक्ष्य भूमौ पतितं विसंज्ञं दैत्यास्तु भीता विमुखा बभूवुः
वीर्यं प्रशंसन्ति शतक्रतोश्च स गोत्रभिच्छर्वमुपेत्य तस्थौ
एह्येहि वीराद्य गृहं महासुर योत्स्याम भूयो हरमेत्य शैलम्
रणान्नैवापयास्यामि कुलं व्यपदिशन् स्वयम्
देवदानवगन्धर्वान् जेष्ये सेन्द्रमहेश्वरम्
समाश्वास्याब्रवीच्छंभुं सारिथं सारिथिं मधुराक्षरम्
यावन्निहन्मि बाणैघैः प्रमथामरवाहिनीम्
कृष्मवर्णान् महावेगान् कशयाभ्याहनन्मुने
जघनेष्ववसीदन्तः कृच्छ्रे णोहुश्च तं रथम्
संवत्सरेण साग्रेण वायुवेगसमा अपि
सुरान् संछादयामास सेन्द्रोपेन्द्रमहेश्वरान्
सुरान् प्रोवाच भगवांश्चक्रपिणिर्जनार्दनः
तसमान्मद्वचनं शीघ्रं क्रियतां वै जयेप्सवः
भज्यतां स्यन्दनश्चापि विरथः क्रियतां रिपुः
नोपेक्ष्यः शत्रुरुद्दिष्टो देवाचार्येण देवताः
चक्रुर्वेगं सहेन्द्रेण समं चक्रधरेण च
निमिषान्तरमात्रेण गदया विनिपोथयत्
शक्त्या विभिन्नहृदयं गतासुं व्यसृजद् भुवि
सध्वजाक्षं रथं तूर्णमभञ्जन्त तपोधनाः
गदामादाय बलवानभिदुद्राव दैवतान्
स्थित्वा प्रोवाच दैत्येन्द्रो महादेवं स हेतुमत्
तथापि त्वां विजेष्यामि पश्य मे ऽद्य पराक्रमम्
ब्रह्मणा सहितान् सर्वान् स्वशरीरे न्यवेशयत्
प्राह एह्येहि तुष्टात्मन् अहमेको ऽपि संश्थितः
दैत्यः शङ्करमभ्यागाद् गदामादाय वेगवान्
शूलपाणिर्गिरिप्रस्थे पदातिः प्रत्यतिष्ठत