ददर्श बालद्वितयं समरूपमवस्थितम्
प्राह तत्त्वं न विन्दामि यत् पृच्छामि वदस्व तत्
भाग्यानि चास्य यच्चोक्तं कर्मतत् कथयाधुना
सो ऽब्रवीद् वद मे ऽद्यैव नोचेन्नाश्नामि भोजनम्
कातरेणाद्य यत्पृष्टं भाव्यः कारुरयं कि
जगाम साह्यं शक्रस्य कर्तुं सौत्यविशारदः
ज्ञात्वेन्द्रस्यैव साहाय्ये तेजसा समवर्धयन्
प्रोवाचैह्येहि देवेश प्रियो यन्ता भवामि ते
संयन्तासि कथं चाश्वान् संशयः प्रतिभाति मे
गन्धर्वतेजसा युक्तं वाजियानवनिशारदम्
स चापि विप्रतनयो मातलिर्नामविश्रुतः
रश्मीन् शमीकतनयो मातलिः प्रगृहीतवान्
प्रविशन् ददृशे श्रीमान् पतितं कार्सुकं महत्
पाण्डुच्छायं सुरश्रेष्ठस्तं जग्राह समार्गणम्
नमस्कृत्य शरं चापे साधिज्ये विनियोजयत्
ब्रह्मेशथविष्णुनामाङ्काः सूदयन्तो ऽसुरान् रणे
सहस्राक्षो ऽतिपटुभिश्छादयामास नारद
महामात्रो धरां प्राप्तः सद्यः सीदञ्छरातुरः
हतप्रधानभूयिष्ठं बलं तदभवद् रिपोः
जम्भासुरश्चापि सुरेशमव्ययं प्रजगमतुर्गृह्य गदे सुघोरे
विष्णुः कुजम्भं निजघान वेगात् स स्यन्दनाद् गामगमद् गतासुः
क्रोधान्वितः शक्रमुपाद्रवद् रणे सिंहं यतैणो ऽतिविपन्नबुद्धिः
जग्राह शक्तिं यमदण्डकल्पां तामग्निदत्तां रिपवे ससर्ज
गदां च कृत्वा सहसैव भस्मसाद् बिभेद जम्भं हृदये च तूर्णम्
तं वीक्ष्य भूमौ पतितं विसंज्ञं दैत्यास्तु भीता विमुखा बभूवुः
वीर्यं प्रशंसन्ति शतक्रतोश्च स गोत्रभिच्छर्वमुपेत्य तस्थौ
एह्येहि वीराद्य गृहं महासुर योत्स्याम भूयो हरमेत्य शैलम्
रणान्नैवापयास्यामि कुलं व्यपदिशन् स्वयम्
देवदानवगन्धर्वान् जेष्ये सेन्द्रमहेश्वरम्
समाश्वास्याब्रवीच्छंभुं सारिथं सारिथिं मधुराक्षरम्