उत्कूजति तथारण्ये मुक्तकण्ठं पुनः पुनः
विव्याध चापं तरसा विनाम्य संतापनाम्ना तु शरेण भूयः
संतापयंश्चापि जगत्समग्रं फूत्कृत्य फूत्कृत्य विवासते स्म
ततो भृशं कामशरैर्वितुन्नो विजृम्भमाणः परितो भ्रमंश्च
भ्रातृव्य वक्ष्यसि वचो यदद्य तत् त्वं कुरुष्वामितविक्रमो ऽसि
आज्ञापयस्वातुलवीर्य शंभो दासो ऽस्मि ते भक्तियुतस्तथेश
विजृम्भणोन्मादसरैर्विभिन्नो धृतिं न विन्दामि रतिं सुखं वा
नान्यः पुमान् धारयितुं हि शक्तो मुक्त्वा भवन्तं हि ततः प्रतीच्छ
तोषं जगामाशु ततस्त्रिशूली तुष्टस्तदैवं वचनं बभाषे
तस्माद्वरं त्वां प्रतिपूजनाय दास्यामि लोक्य च हास्यकारि
वृद्धो ऽथ बालो ऽथ युवाथ योषित् सर्वे तदोन्मादधरा भवन्ति
तवाग्रतो हास्यवचो ऽभिरक्ता भवन्ति ते योगयुतास्तु ते स्युः
मम प्रसादाद् वरदो नराणां भविष्यसे पूज्यतमो ऽभिगच्छ
कालञ्जरस्योत्तरतः सुपुण्यो देशो हिमाद्रेरपि दक्षिणस्थः
तस्मिन् प्रयाते भगवांस्त्रिनेत्रो देवो ऽपि विन्ध्यं गिरिमभ्यगच्छत्
दृष्ट्वा प्रहर्त्तुकामं च ततः प्रादुवचद्धरः
विवेश ऋषयो यत्र सपत्नीका व्यवस्थिताः
ततस्तान् प्राह भगवान् भिक्षा मे प्रतिदीयताम्
तदाश्रमाणि सर्वाणि परिचक्राम नारदः
प्रक्षोभमगमन् सर्वा हीनसत्त्वाः समन्ततः
एताभ्यां भर्तृपूजासु तच्चिन्तासु स्थितं मनः
तत्र प्रयान्ति कामार्त्ता मदविह्वलितेन्द्रियाः
अनुडजग्मुर्यथा मत्तं करिण्य इव कुञ्जरम्
क्रोधान्विताब्रुवन्सर्वे लिङ्गे ऽस्य पततां भुवि
अन्तर्द्धानं जगामाथ त्रिशूली नीललोहितः
रसातलं विवेशाशु ब्रह्मण्डं चोर्ध्वतो ऽभिनत्
पातालभुवनाः सर्वे जङ्गमाजङ्गमैर्वृताः
जगाम माधवं द्रष्टुं क्षीरोदं नाम सागरम्
उवाच देव भुवनाः किमर्थ क्षुभिता विभो
पातितस्तस्य भारार्ता संचचाल वसुंधरा