बलवान् दानवपतिरजेयो देवदानवै
वज्रं परिभ्राम्य बलस्य मूर्ध्नि चिक्षेप हे मूढ हतो ऽस्युदीर्य
बलो ऽद्रवद् देवपतिश्च भीतः पराङ्मुखो ऽभृत् समरान्महर्षे
तिष्ठस्व राजासि चराचरस्य न राजधर्मे गदितं पलायनम्
उपेत्याह श्रूयतां वाक्यमीश त्वं मे नाथो भूतभव्येश विष्णो
आयुधं देहि भगवान् त्वामहं शरणं गतः
प्रार्थयस्वायुधं वह्निं स ते दास्यत्यसंशयम्
शरणं पावकमगादिदं चोवाच नारद
एष चाहूयते जम्भस्तस्माद्देह्यायुधं मम
यत्त्वं दर्प परित्यज्य मामेव शरणं गतः
प्रादादिन्द्राय भगवान् रोचमानो दिवं गतः
प्रत्युद्ययौ तदा जम्भं हन्तुकामो ऽरिमर्दनः
क्रोधं चक्रे तदा जम्भ निजघान गजाधिपम्
निपपात यथा शैलः शक्रवज्रहतः पुरा
त्यक्त्वैव मन्दरगिरिं पपात वसुधातले
मा मा शक्र पतस्वाद्य भूतले तिष्ठ वासव
प्राह चैतान् कथं योत्स्ये अपत्रः शत्रुभिः सहः
युध्यस्व त्वं समारुह्यप्रेषयिष्याम यदा रथम्
वानरध्वजसंयुक्तं हरिभिर्हरिभिर्युतम्
शक्राय प्रेषयामासुर्विश्वावसुपुरोगमाः
प्राह योत्स्ये कथं युद्धे संयमिष्ये कथं हयान्
ततो ऽहं घातये शत्रून् नान्यथेति कथञ्चन
विद्यते स्वयमेवाश्वांस्त्वं संयन्तुमिहार्हसि
क्षमातलं निपपातैव परिभ्रष्टस्रगम्बरः
पतमानं सहस्राक्षं दृष्ट्वा भूः समकम्पत
भार्याब्रवीत् प्रभो बालं बहिः कुरु यथासुखम्
सा चाह श्रूयतां नाथ दैवज्ञपरिभाषितम्
यद्बाह्यतो मुनिश्रेष्ठ तद् भवेद् द्विगुणं मुने
निराशङ्को बहिः शीघ्रं प्राक्षिपत् क्ष्मातले द्विजः
निवारितो गता वेला अर्द्धूहानिर्भविष्यति