व्रणभङ्गं करिष्यामि स्वयमेव पिनाकिनः
इत्येवमुक्त्वा वचनं समत्थाय वरासनात्
शूलपाणेस्ततः स्थित्वा रूपं चिह्नानि यत्नतः
सा ज्ञात्वा दानवं रौद्रं मायाच्छादितविग्रह्म्
देव्याश्चिन्तितमाज्ञाय सुन्दं त्यक्त्वान्धको ऽसुरः
समाद्रवत दैतेयो येन मार्गेण सागमत्
तमापतन्तं दृष्ट्वैव गिरिजा प्राद्रवद् भयात्
तत्राप्यनुजगामासौ मदान्धो मुनिपुङ्गव
तद्भयादाविशद् गौरी श्वेतार्ककुसुमं शुचि
नष्टायामाथ पार्वत्यां भूयो हैरण्यलोचनिः
अन्धके पुरायाते स्वबलं मुनिसत्तम
ततो ऽमरगणश्रेष्ठो विष्णुश्चक्रगदाधरः
शार्ङ्गचापच्युतैर्बाणैः संस्यूता दानवर्षभाः
गदया कांश्चिदवधीत् चक्रेणान्यान् जनार्दनः
हलेनाकृष्य चैवान्यान् मु सलेन व्यचूर्णयत्
स चादिपुरुषो धाता पुराणाः प्रपितामहः
संस्पृष्टा ब्रह्मतोयेन सर्वतीर्थमयेन हि
दानवास्तेन तोयेन संस्पृष्टाश्चाघहारिणा
दृष्ट्वा ब्रह्महरी युद्धे घातयन्तौ महासुरान्
तमापतन्तं संप्रेक्ष्य बलो दानवसत्तमः
बलवान् दानवपतिरजेयो देवदानवै
वज्रं परिभ्राम्य बलस्य मूर्ध्नि चिक्षेप हे मूढ हतो ऽस्युदीर्य
बलो ऽद्रवद् देवपतिश्च भीतः पराङ्मुखो ऽभृत् समरान्महर्षे
तिष्ठस्व राजासि चराचरस्य न राजधर्मे गदितं पलायनम्
उपेत्याह श्रूयतां वाक्यमीश त्वं मे नाथो भूतभव्येश विष्णो
आयुधं देहि भगवान् त्वामहं शरणं गतः
प्रार्थयस्वायुधं वह्निं स ते दास्यत्यसंशयम्
शरणं पावकमगादिदं चोवाच नारद
एष चाहूयते जम्भस्तस्माद्देह्यायुधं मम
यत्त्वं दर्प परित्यज्य मामेव शरणं गतः