एक एव रणे रौद्रः कालनेमिर्महासुरः
योधयामास तेजस्वी विद्युन्माली महासुरः
साध्यान् मरुद्गणांश्चैव निवातकवचादयः
कृतानि च सुराब्दानां दशतीः षट् महामुने
तदा मायं समाश्रित्य ग्रसन्तः क्रमशो ऽव्ययान्
आवृतं वर्जितं सर्वैः प्रमथैरमरैरपि
क्रोधादुत्पादयामास रुद्रो जृम्भायिकां वशी
वदनं विकृतं कृत्वा मुक्तशस्त्रं विजृम्भिरे
सुराश्च निर्ययुस्तूर्णं दैत्यदेहेभ्य आकुला
शोभन्ते पद्मपत्राक्षा मेघेभ्य इव विद्युतः
अयुध्यन्त महात्मानो भूय एवातिकोपिताः
पराजीयन्त संग्रामे भूयो भूयस्त्वहर्निशम्
काले ऽभ्युपासत तदा सो ऽष्टादशभुजो ऽव्ययः
कृतार्थो भक्तिमान् मूर्ध्ना पुष्पाञ्जलिमुपाक्षिपत्
हिरण्यगर्भेत्यादित्यमुपतस्थे जजाप ह
ननर्त भावगम्भीरं दोर्दण्डं भ्रामयन् बलात्
नृत्यन्ते भावसंयुक्ता हरस्यानुविलासिनः
युद्धाय दानवैः सर्वैस्त्रिनेत्रभुजपालितैः
दानवा निर्जिताः सर्वे बलिभिर्भयवर्जितैः
अन्धकः सुन्दमाहूय इदं वचनमब्रीत्
तद्वदाम्यद्य यद्वाक्यं तच्छ्रुत्वा यत्क्षमं कुरु
समासते हि हृदये पद्माक्षी शैलनन्दिनी
तत्रैनां मोहयिष्यामि हररूपेण दानव
ततो गत्वाथ भुक्त्वा तां जेष्यामि प्रमथान् सुरान्
समजायत शैलादिरन्धकः शङ्करो ऽप्यभूत्
संप्राप्तौ मन्दरगिरिं प्रहारैः क्षतविग्रहौ
विवेश निर्विशङ्केन चित्तेनासुरसत्तमः
महेश्वरवपुश्छ्न्नं प्रहारैर्जर्जरच्छविम्
तं दृष्ट्वा मालिनीं प्राह सुयशां विजयां जयाम्
शत्रुभिर्दानववरैस्तदुत्तिष्ठस्व सत्वरम्