द्वन्द्वयुद्धूं समभवद् घोररूपं तपोधन
कुम्भध्वजं बलिर्धीमान् नन्दिषेणं विरोचनः
वाणस्तथा नैगमेयं बलं राक्षसपुङ्गवः
दुर्योधनश्च बलिनं घण्टाकर्णमयोधयत्
संयोधयन्ति देवर्षे दिव्याब्दानां शतनि षट्
वारयामास बलवान् जम्भो नाम महासुरः
महौजसं कुजम्भश्च विष्णुं दैत्यान्तकारिणम्
द्विमूर्धा पवनं सोमं राहुर्मित्रं विरूपधृक्
अष्टावेव महेष्वासान् वारयामासुराहवे
वातापि चेल्वलश्चैव नानाशस्त्रास्त्रयोधिनः
एक एव रणे रौद्रः कालनेमिर्महासुरः
योधयामास तेजस्वी विद्युन्माली महासुरः
साध्यान् मरुद्गणांश्चैव निवातकवचादयः
कृतानि च सुराब्दानां दशतीः षट् महामुने
तदा मायं समाश्रित्य ग्रसन्तः क्रमशो ऽव्ययान्
आवृतं वर्जितं सर्वैः प्रमथैरमरैरपि
क्रोधादुत्पादयामास रुद्रो जृम्भायिकां वशी
वदनं विकृतं कृत्वा मुक्तशस्त्रं विजृम्भिरे
सुराश्च निर्ययुस्तूर्णं दैत्यदेहेभ्य आकुला
शोभन्ते पद्मपत्राक्षा मेघेभ्य इव विद्युतः
अयुध्यन्त महात्मानो भूय एवातिकोपिताः
पराजीयन्त संग्रामे भूयो भूयस्त्वहर्निशम्
काले ऽभ्युपासत तदा सो ऽष्टादशभुजो ऽव्ययः
कृतार्थो भक्तिमान् मूर्ध्ना पुष्पाञ्जलिमुपाक्षिपत्
हिरण्यगर्भेत्यादित्यमुपतस्थे जजाप ह
ननर्त भावगम्भीरं दोर्दण्डं भ्रामयन् बलात्
नृत्यन्ते भावसंयुक्ता हरस्यानुविलासिनः
युद्धाय दानवैः सर्वैस्त्रिनेत्रभुजपालितैः
दानवा निर्जिताः सर्वे बलिभिर्भयवर्जितैः
अन्धकः सुन्दमाहूय इदं वचनमब्रीत्