स पपाताथ निःसंज्ञो ययौ नन्दी ततस्त्वरन्
पञ्च दानवशार्दुला नन्दिनं समुपाद्रवन्
नानाप्रहरणा युद्धे गणनाथमभिद्रवन्
समपश्यन्त देवास्तं पितामहपुरोगमाः
साहाय्यं क्रियतां शंभोरेतदन्तरमुत्तमम्
समापतन्त वेगेन शिवसैन्यमथाम्बरात्
आपगानां महावेगं पतन्तीनां महार्णवे
बलयोर्घोरसंकाशो सुरप्रमथयोरथ
रथाद् भार्गवमाक्रामत् सिंहः क्षुद्रमृगं यथा
निपात्य रक्षिणः सर्वानथ शुक्रं न्यवेदयत्
भार्गवं त्वावृततनुं जठरे स न्यवेशयत्
तुष्टाव भगवान्तं तं मुनिर्वाग्भिरथादरात्
शङ्कराय महेशाय त्र्यम्बकाय नमो नमः
मदनाग्ने कालशत्रो वामदेवाय ते नमः
महादेवाय शर्वाय ईश्वराय नमो नमः
स प्राह देववर देहि वरं ममाद्य यद्वै तवैव जठरात् प्रतिनिर्गमो ऽस्तु
इत्युक्तमात्रो विभुना चचार देवोदरे भार्गवपुङ्गवस्तु
भुवनार्णवपातालान् वृतान् स्थावरजङ्मैः
यक्षान् किंपुरुषाद्यादीन् गन्धर्वाप्सरसां गणान्
वृक्षगुल्मान् गिरीन् वल्ल्यः फलमूलौषधानि च
चतुष्पदान् सद्विपदान् स्थावरान् जङ्गमानपि
तत्रासतो भार्गवस्य दिव्यः संवत्सरो गतः
भिक्तिनम्रो महादेवं शरणं समुपागम्
सहस्राक्ष महादेव त्वामहं शरणं गतः
दृष्ट्वैव सर्वान् भुवनांस्तवोदरे श्रान्तो भवन्तं शरणं प्रपन्नः
निर्गच्छ पुत्रो ऽसि ममाधुना त्वं शिश्नेन भो भार्गववंशचन्द्र
इत्येवमुक्त्वा भगवान् मुमोच शिश्नेन शुक्रं स च निर्जगाम
प्रणम्य शंभुं स जगाम तूर्ण महासुराणां बलमुत्तमौजाः
पुनर्युद्धाय विदधुर्मतिं सह गणेश्वरैः
युयुधुः संकुलं युद्धं सर्व एव जयेप्सवः