आर्वतयामास तदा विधानेन शुचिव्रतः
ये हताः प्रथमं युद्धे दानवास्ते समुत्थिताः
युद्धायाभ्यागतेष्वेव नन्दी शङ्करमब्रवीत्
अविचिन्त्यमसह्यं च मृतानां जीवनं पुनः
ते समुज्जीविता भूयो भार्गावेणाथ विद्याया
संजातं स्वल्पमेवेश शुक्रविद्याबलाक्षयम्
प्रत्युवाच प्रभुः प्रीत्य स्वार्थसाधनमुत्तमम्
अहं तं संयमिष्यामि यथायोगं समेत्य हि
समाजगाम दैत्यानां चमुं शुक्रजिघृक्षया
संरुरोध तदा मार्गं सिहस्येव पशुर्वने
स पपाताथ निःसंज्ञो ययौ नन्दी ततस्त्वरन्
पञ्च दानवशार्दुला नन्दिनं समुपाद्रवन्
नानाप्रहरणा युद्धे गणनाथमभिद्रवन्
समपश्यन्त देवास्तं पितामहपुरोगमाः
साहाय्यं क्रियतां शंभोरेतदन्तरमुत्तमम्
समापतन्त वेगेन शिवसैन्यमथाम्बरात्
आपगानां महावेगं पतन्तीनां महार्णवे
बलयोर्घोरसंकाशो सुरप्रमथयोरथ
रथाद् भार्गवमाक्रामत् सिंहः क्षुद्रमृगं यथा
निपात्य रक्षिणः सर्वानथ शुक्रं न्यवेदयत्
भार्गवं त्वावृततनुं जठरे स न्यवेशयत्
तुष्टाव भगवान्तं तं मुनिर्वाग्भिरथादरात्
शङ्कराय महेशाय त्र्यम्बकाय नमो नमः
मदनाग्ने कालशत्रो वामदेवाय ते नमः
महादेवाय शर्वाय ईश्वराय नमो नमः
स प्राह देववर देहि वरं ममाद्य यद्वै तवैव जठरात् प्रतिनिर्गमो ऽस्तु
इत्युक्तमात्रो विभुना चचार देवोदरे भार्गवपुङ्गवस्तु
भुवनार्णवपातालान् वृतान् स्थावरजङ्मैः
यक्षान् किंपुरुषाद्यादीन् गन्धर्वाप्सरसां गणान्
वृक्षगुल्मान् गिरीन् वल्ल्यः फलमूलौषधानि च