पुरतो नन्दिनं कृत्वा जिघांसन्ति स्म दानवान्
भूयो निवृत्ता बलिनः कार्त्तस्वरपुरोगमाः
नन्दिषेणो व्याघ्रमुखो निवृत्तश्चापि वेगवान्
कार्त्तस्वरो निववृते गदामादाय नारद
तं पट्टिशं भ्राम्य जघान मूर्ध्नि कार्तस्वरं विस्वरमुन्नदन्तम्
बबन्ध वीरः सह पट्टिशेन गणेश्वरं चाप्यथ नन्दिषेणम्
विशाखः कपितो ऽभ्येत्य शक्तिपाणिरवस्थितः
संयोधयामास बली विशाखं कुक्कुटध्वजम्
शाखश्च नैगमेयश्च तूर्णमाद्रवतां रिपुम्
शाखश्च नैगमेयश्च तूर्णमाद्रवतां रिपुम्
ते प्राप्ताः शम्बरं तूर्णं प्रेक्ष्यमाणा गणेश्वराः
जगाम विलयं तूर्णमाकासादिव भूतलम्
दिशो ऽथ भेजे देवर्षे कुमारः सैन्यमर्दयत्
विषण्णारूपा भयविह्वलाङ्गी जगाम सुक्रं शरणं भयार्ता
अन्धको ऽभ्येत्य शुक्रं तु इदं वचनमब्रवीत्
अथान्यानपि विप्रर्षे गन्धर्वसुरकिन्नरान्
अनाथेन यथा नारी प्रमथैरपि काल्यते
अक्षयाः प्रमथाश्चामी कुरुक्षेत्रफलं यथा
जयेम च परान् युद्धे तथा त्वं कुर्तुमर्हसि
त्वद्धितार्थ यतिष्यामि करिष्यामि तव प्रियम्
आर्वतयामास तदा विधानेन शुचिव्रतः
ये हताः प्रथमं युद्धे दानवास्ते समुत्थिताः
युद्धायाभ्यागतेष्वेव नन्दी शङ्करमब्रवीत्
अविचिन्त्यमसह्यं च मृतानां जीवनं पुनः
ते समुज्जीविता भूयो भार्गावेणाथ विद्याया
संजातं स्वल्पमेवेश शुक्रविद्याबलाक्षयम्
प्रत्युवाच प्रभुः प्रीत्य स्वार्थसाधनमुत्तमम्
अहं तं संयमिष्यामि यथायोगं समेत्य हि
समाजगाम दैत्यानां चमुं शुक्रजिघृक्षया
संरुरोध तदा मार्गं सिहस्येव पशुर्वने