संभ्रामयंस्तूर्णतरं स वेगात् ससर्ज नन्दिं प्रति जातकोपः
जघान तेनैव कुजम्भमाहवे स प्राणहीनो निपपात भूमौ
ते वध्यमाना गणनायकेन दुर्योधनं वै शरणं प्रपन्नाः
प्रासं समाविध्य तडित्प्रकाशं नन्दिं प्रचिक्षेप हतो ऽसि वै ब्रुवन्
तत्प्रासमालक्ष्य तदा निकृत्तं संवर्त्त्य मुष्टिं गणमाससाद
हतो ऽथ भूमौ निपपात वेगाद् दैत्याश्च भीता विगता दिशो दश
प्रगृह्य बाणासनमुग्रवेगं बिभेद बाणैर्यमदण्डकल्पैः
ते छाद्यमानासुरबामजालैर्विनायकाद्या बलिनो ऽपि समन्तान्
तूर्णं सभभ्येत्य रिपुं समीक्ष्य प्रगृह्य शक्त्या हृदये विभेद
ममार चारिपृतना जाता भूयः पराङ्मुखी
पुरतो नन्दिनं कृत्वा जिघांसन्ति स्म दानवान्
भूयो निवृत्ता बलिनः कार्त्तस्वरपुरोगमाः
नन्दिषेणो व्याघ्रमुखो निवृत्तश्चापि वेगवान्
कार्त्तस्वरो निववृते गदामादाय नारद
तं पट्टिशं भ्राम्य जघान मूर्ध्नि कार्तस्वरं विस्वरमुन्नदन्तम्
बबन्ध वीरः सह पट्टिशेन गणेश्वरं चाप्यथ नन्दिषेणम्
विशाखः कपितो ऽभ्येत्य शक्तिपाणिरवस्थितः
संयोधयामास बली विशाखं कुक्कुटध्वजम्
शाखश्च नैगमेयश्च तूर्णमाद्रवतां रिपुम्
शाखश्च नैगमेयश्च तूर्णमाद्रवतां रिपुम्
ते प्राप्ताः शम्बरं तूर्णं प्रेक्ष्यमाणा गणेश्वराः
जगाम विलयं तूर्णमाकासादिव भूतलम्
दिशो ऽथ भेजे देवर्षे कुमारः सैन्यमर्दयत्
विषण्णारूपा भयविह्वलाङ्गी जगाम सुक्रं शरणं भयार्ता
अन्धको ऽभ्येत्य शुक्रं तु इदं वचनमब्रवीत्
अथान्यानपि विप्रर्षे गन्धर्वसुरकिन्नरान्
अनाथेन यथा नारी प्रमथैरपि काल्यते
अक्षयाः प्रमथाश्चामी कुरुक्षेत्रफलं यथा
जयेम च परान् युद्धे तथा त्वं कुर्तुमर्हसि
त्वद्धितार्थ यतिष्यामि करिष्यामि तव प्रियम्