गीतवाद्यादिसंमिश्रो दुन्दुभीनां कलिप्रिय
गणास्तद्दानवं सैन्यं जिघांसन्ति स्म कोपिताः
क्रोधान्वितस्तुहुण्डस्तु वेगोनाबिससार ह
राजतं राजते ऽत्यर्थमिन्द्रध्वजमिवोच्छ्रितम्
रुद्राद्याः स्कन्दपर्यन्तास्ते ऽभज्यन्त भयातुराः
समाद्रवत वेगेन तुहुण्डं दनुरुङ्गवम्
परिघं पातयामास गुम्भपृष्ठे महाबलः
शतधा त्वगमद् ब्रह्मन् मेरोः कूट इवाशनिः
बबन्ध बाहुपाशेन राहू रक्षन् हि मातुलम्
समाजघान शिरशि कुठारेण महोदरः
स मोक्षार्थे ऽकरोद् यत्नं न शशाक च नारद
प्रगृह्य तूर्ण मुशलं महात्मा राहुं दुरात्मानमसौ जघान
घटोदरो वै गदया जघान खड्गेन रक्षो ऽधिपतिः सुकेशी
संत्यक्तमात्रो ऽथ परश्वधेन तुहुण्मूर्द्धानमथो बिभेद
पञ्चैककालानलसन्निकाशा विशान्ति सेनां दनुपुङ्गवानाम्
गदां समाविध्य जघान मूर्ध्नि विनायकं कुम्भतटे करे च
कुम्भध्वजं चूर्णितसंधिबन्धं घटोदरं चोरुविभिन्नसंधिम्
समभ्यधावत् त्वरितो निहन्तुं गणेश्वरान् स्कन्दविशाखमुख्यान्
शैलादिमामन्त्र्य वचो बभाषे गच्छस्व दैत्यान् जहि वीर युद्ध
बलिं सम्भ्येत्य जघान मूर्ध्नि संमोहितः सो ऽवनिमाससाद
संभ्रामयंस्तूर्णतरं स वेगात् ससर्ज नन्दिं प्रति जातकोपः
जघान तेनैव कुजम्भमाहवे स प्राणहीनो निपपात भूमौ
ते वध्यमाना गणनायकेन दुर्योधनं वै शरणं प्रपन्नाः
प्रासं समाविध्य तडित्प्रकाशं नन्दिं प्रचिक्षेप हतो ऽसि वै ब्रुवन्
तत्प्रासमालक्ष्य तदा निकृत्तं संवर्त्त्य मुष्टिं गणमाससाद
हतो ऽथ भूमौ निपपात वेगाद् दैत्याश्च भीता विगता दिशो दश
प्रगृह्य बाणासनमुग्रवेगं बिभेद बाणैर्यमदण्डकल्पैः
ते छाद्यमानासुरबामजालैर्विनायकाद्या बलिनो ऽपि समन्तान्
तूर्णं सभभ्येत्य रिपुं समीक्ष्य प्रगृह्य शक्त्या हृदये विभेद
ममार चारिपृतना जाता भूयः पराङ्मुखी