शुश्राव वायुमार्गस्थो विघ्नराजो विनायकः
मन्दरं पर्वतश्रेष्ठं ददृशे पितरं तथा
किं तिष्ठसि जगन्नाथ समुत्तिष्ठ रणोत्सुकः
प्राह यास्ये ऽन्धकं हन्तुं स्थेयमेवाप्रमत्तया
समीक्ष्य सस्नेहहरं प्राह गच्छ जयान्धकम्
प्रतिवन्द्य सुसंप्रीता पादावेवाभ्यवन्दत
जयां च विजयां चैव जयन्तीं चापराजिताम्
रक्षणीया प्रयत्नेन गिरिपुत्री प्रमादतः
निर्जगाम गृहात् तुष्टो जयेप्सुः शूलधृग् बली
समन्तात् परिवार्यैव जयशब्दांश्च चक्रिरे
शुभानि सौम्यानि सुमङ्गलानि जातानी चिह्नानि जयाय शंभोः
क्रव्यादसंघाश् च तथामिषैणः प्रयान्ति हृष्टास्तृषितासृगर्थे
शकुनिश् चापि हारीतो मौनी याति पराङ्गमुखः
शैलादिं प्राह वचनं सस्मितं शशिशेखरः
निमित्तानीह दृस्यन्ते संभूतानि गणेश्वर
कः संदेहो महादेव यत् त्वं जयसि शात्रवान्
समादिदेश युद्धाय महापशुपतैः सह
नानाशस्त्रधरा वीरा वृक्षानशनयो यथा
प्रवृत्ताः प्रमथान् हन्तुं कूटमुद्गरपाणयः
ससूर्याग्निपुरोगास्तु समायाता दिदृक्षवः
गीतवाद्यादिसंमिश्रो दुन्दुभीनां कलिप्रिय
गणास्तद्दानवं सैन्यं जिघांसन्ति स्म कोपिताः
क्रोधान्वितस्तुहुण्डस्तु वेगोनाबिससार ह
राजतं राजते ऽत्यर्थमिन्द्रध्वजमिवोच्छ्रितम्
रुद्राद्याः स्कन्दपर्यन्तास्ते ऽभज्यन्त भयातुराः
समाद्रवत वेगेन तुहुण्डं दनुरुङ्गवम्
परिघं पातयामास गुम्भपृष्ठे महाबलः
शतधा त्वगमद् ब्रह्मन् मेरोः कूट इवाशनिः
बबन्ध बाहुपाशेन राहू रक्षन् हि मातुलम्
समाजघान शिरशि कुठारेण महोदरः