समीक्ष्य च दिशः सर्वास्ततो ऽनङ्गमपश्यत
यं ददर्श जगन्नाथो देवो नारायणो ऽव्ययः
स शङ्करेण संदग्धो ह्यनङ्गत्वमुपागतः
दग्धस्तु कारणे कस्मिन्नेतद्व्याख्यातुमर्हसि
विनाश्य दक्षयज्ञं तं विचचार त्रिलोचनः
अपत्नीकं तदास्त्रेण उन्मादेनाभ्यताडयत्
विचचार तदोन्मत्तः काननानि सरांसि च
न शर्म लेभे देवर्षे बाणविद्ध इव द्विपः
निमग्ने शङ्करे आपो दग्धाः कृष्णात्वमागताः
आस्यन्दत् पुण्यतीर्था सा केशपाशमिवावने
पुलुनेषु च रम्येषु वापीषु नलिनीषु च
विचारन् स्वेच्छया नैव शर्म लेभे महेश्वरः
क्षणं ध्यायति तन्वङ्गीं दक्षकन्यां मनोरमाम्
स्वप्ने तथेदं गदति तां दृष्ट्वा दक्षकन्यकाम्
मुग्धे त्वया विरहितो दग्धो ऽस्मि मदनाग्निना
पादप्रणामावनतमभिभाषितु मर्हसि
आलिङ्ग्यसे च सततं किमर्थं नाभिभाषसे
विशेषतः पतिं बाले ननुप त्वमतिनिर्घृणा
विना त्वया न जीवेयं तदसत्यं त्वया कृतम्
नान्यथा नश्यते तापः सत्येनापि शपे प्रिये
उत्कूजति तथारण्ये मुक्तकण्ठं पुनः पुनः
विव्याध चापं तरसा विनाम्य संतापनाम्ना तु शरेण भूयः
संतापयंश्चापि जगत्समग्रं फूत्कृत्य फूत्कृत्य विवासते स्म
ततो भृशं कामशरैर्वितुन्नो विजृम्भमाणः परितो भ्रमंश्च
भ्रातृव्य वक्ष्यसि वचो यदद्य तत् त्वं कुरुष्वामितविक्रमो ऽसि
आज्ञापयस्वातुलवीर्य शंभो दासो ऽस्मि ते भक्तियुतस्तथेश
विजृम्भणोन्मादसरैर्विभिन्नो धृतिं न विन्दामि रतिं सुखं वा
नान्यः पुमान् धारयितुं हि शक्तो मुक्त्वा भवन्तं हि ततः प्रतीच्छ
तोषं जगामाशु ततस्त्रिशूली तुष्टस्तदैवं वचनं बभाषे
तस्माद्वरं त्वां प्रतिपूजनाय दास्यामि लोक्य च हास्यकारि