तेषां वचनमर्थाढ्यं श्रुत्वा जीमूतवाहनः
श्रूयतां सर्वमाख्यास्ये स्वयशोवर्द्धनं वचः
अपवादभयाद् गुह्यं भवतां हि प्रकाशये
एकरूपात्मकं देहं कुरुध्यं यत्नमास्थिताः
चन्दनादिभिरेकाग्रैर्न मे प्रीतिः प्रजायते
नरकार्हा भवद्भक्ता रक्षामि स्वयशोर्ऽथतः
यथा पतन्ति नरके हरभक्तास्तपस्विनः
अतोर्ऽथं न क्षिपाम्यद्य भवतो नरके ऽद्भुते
श्वेतमूर्तिः स गवान् पीतो रक्तो ऽञ्जनप्रभः
श्वेतमूर्तिः स भगवान् पीतो रक्तो ऽञ्जनप्रभः
स एव धत्ते भगवान् सर्वपूज्यः सदाशिवः
प्रत्यूचुर्भगवन् ब्रूहि सदाशिवविशेणम्
दर्शयामास तद्रूपं सदाशैवं निरञ्जनम्
सहस्रवक्त्रचरणं सहस्त्रभुजमीश्वरम्
दण्डसंस्थास्य दृश्यन्ते देवप्रहरणास्तथा
रौद्रैश्च वैष्णवैश्चैव वृतं चिह्नैः सहस्रशः
खगध्वजं वृषारूढं वृषध्वजम्
तथा तथा त्वजायन्त महापाशुपता गणाः
क्षणाच्छ्वेतः क्षणाद् रक्तः पीतो नीलः क्षणादपि
क्षणाद् भवति रुद्रेन्द्रः क्षणाच्छंभुः प्रभाकरः
ततस्तदद्भुततमं दृष्ट्वा शैवादयो गणाः
यदाभिन्नममन्यन्त देवेदेवं सदाशिवम्
तेष्वेवं धूतपापेषु अभिन्नेषु हरीश्वरः
परितुष्टो ऽस्मि वः सर्वे ज्ञानेनानेन सुव्रताः
भिन्नदृष्ट्युद्भवं पापं यत्तद् भ्रंशं प्रयातु नः
संपरिष्वजताव्यक्तस्तान् सर्वान् गणयूथपान्
श्रुतिगदितानुगमेनेव मन्दरं गिरिमवतत्य समध्यवसन्तम्
नीलाजिनातततनुः शरदभ्रवर्णो यद्वद् विभाति बलवान् वृषभो हरस्य
मन्दरं पर्वतश्रेष्ठं प्रमथाश्रितकन्दरम्
प्रमथाश्चापि संरब्धा जघ्नुस्तूर्याण्यनेकशः