तव भक्ताः समायाता जटामण्डलिनोद्भुताः
इमे प्राप्ता गणा योद्धुं महाव्रतिन उत्तमाः
निराश्रया नाम गणाः समायाता जगद्गुरो
समायाताः खगारूढा वृषभध्वजिनो ऽव्ययाः
भैरवो विष्णुना सार्द्धमभेदेनार्चितो हि यै
गणास्त्वद्रोमसंभूता वीरभद्रपुरोगमाः
सहायार्थं तवायाता यथाप्रीत्यादिशस्व तान्
तान् करेणैव भगवान् समाश्वास्योपवेशयत्
संपरिष्वजताध्यक्षांस्ते प्रणेमुर्महेश्वरम्
ततस्तदद्भुततमं दृष्ट्वा सर्वे गणेश्वराः सुचिरं विस्मिताक्षाश्च वैलक्ष्यमगमत् परम्
प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपम्
महापाशुपतानां हि यत् त्वयालिङ्गनं कृतम्
रूपं ज्ञानं विवेकं च वदस्व स्वेच्छया विभो
बभाषे तान् गणान् सर्वान् भावाभावविचारिणः
अहङ्कारविमूढैश्च निन्दद्भिर्वैष्णवं पदम्
यो ऽहं स भगवान् विष्णुर्विष्णुर्यः सो ऽहमव्ययः
तदमीभिर्नरव्याघ्रैर्भक्तिभावयुतैर्गणैः
येनाहं निन्दितो नित्यं भवद्भिर्मूढबुद्धिभिः
इत्येवमुक्ते वचने गणाः प्रोचुर्महेश्वरम्
भवान् हि निर्मलः सुद्धः शान्तः सुक्लो निरञ्जनः
तेषां वचनमर्थाढ्यं श्रुत्वा जीमूतवाहनः
श्रूयतां सर्वमाख्यास्ये स्वयशोवर्द्धनं वचः
अपवादभयाद् गुह्यं भवतां हि प्रकाशये
एकरूपात्मकं देहं कुरुध्यं यत्नमास्थिताः
चन्दनादिभिरेकाग्रैर्न मे प्रीतिः प्रजायते
नरकार्हा भवद्भक्ता रक्षामि स्वयशोर्ऽथतः
यथा पतन्ति नरके हरभक्तास्तपस्विनः
अतोर्ऽथं न क्षिपाम्यद्य भवतो नरके ऽद्भुते
श्वेतमूर्तिः स गवान् पीतो रक्तो ऽञ्जनप्रभः
श्वेतमूर्तिः स भगवान् पीतो रक्तो ऽञ्जनप्रभः