जगाम तत्र यत्रास्ते सह देव्या पिनाकधृक्
तमुत्तरं हरः प्राह शृण्वत्या गिरिकन्यया
तन्न शक्नोम्यहं त्यक्तुं विनाज्ञां वृक्षवैरिणः
तदेषा यातु स्वं कामं नाहं वारयितुं क्षमः
ब्रूहि गत्वान्धकं वीर मम वाक्यं विपश्चितम्
प्रामद्यूतं परिस्तीर्य यो जेष्यति स लप्स्यते
समागम्याब्रवीद् वाक्यं शर्वगौर्योश्च भाषितम्
समाहूयाब्रवीद् वाक्यं दुर्योधनमिदं वचः
ताडयस्व सुविश्रब्धं दुःशीलामिव योषितम्
ताडयामास वेगेन यथाप्राणेन भूयसा
सत्वरं भैरवं रावं रुराव सुरभी यथा
समायाताः सभां तूर्णं किमेतदिति वादिनः
ते चापि बलिनां श्रेष्ठाः सन्नद्धा युद्धकाङ्क्षिणः
अन्धको रथमास्थाय पञ्चनल्वप्रणमाणतः
जम्भः कुजम्भो हुण्डश्च तुहुण्डः शम्बरो बलिः
अयःशुङ्कुः शिबिः शाल्वो वृषपर्वा विरोचनः
शरभः शलभश्चैव विप्रचित्तिश्च वीर्यवान्
प्रजगमुरुत्सुका योद्धुं नानायुधधरा रणे
महाचलं मन्दरमभ्युपेयिवान् स कालपाशावसितो हि मन्दधीः
प्राहामन्त्रय शैलादे ये स्थितास्तव शासने
उपस्पृश्य जलं श्रीमान् सस्मार गणनायकान्
समुत्पत्य त्वरायुक्ताः प्रणतास्त्रिदसेश्वरम्
सर्वान् निवेदयामास शङ्कराय महात्मने
एते रुद्रा इति ख्याताः कोट्य एकादशैव तु
एतेषां द्वारपालास्ते मन्नमानो यशोधनाः
षट् च षष्टिस्तथा कोट्यः स्कन्दनाम्नः कुमारकान्
विशाखास्तावदेवोक्ता नैगमेयाश्च शङ्कर
एकैकं प्रति देवेश तावत्यो ह्यपि मातरः
एते शैवा इति प्रोक्तास्तव भक्ता गणेश्वराः
एते गणास्त्वसंख्याताः सहायार्थं समागताः