पतनाय तथाधर्म इह लोके परत्र च
सर्वेषामपि वर्णानामेष धर्मो ध्रुवो ऽन्धक
स याति नरकं घोरं रौरवं बहुलाः समाः
प्राह धर्मव्यवस्थानं खगेन्द्रायारुणाय हि
नयन्ति निकृतिप्रज्ञं परदाराः पराभवम्
भवान् धर्मपरस्त्वेको नाहं धर्म समाचरे
गच्छ शम्बर शैलेन्द्रं मन्दरं वद शङ्करम्
परिभुञ्जसि केनाद्य तव दत्तो वदस्व माम
तत् किमर्थं निवससे मामनादृत्य मन्दरे
येयं हि भवतः पत्नी सा मे शीघ्रं प्रदीयताम्
जगाम तत्र यत्रास्ते सह देव्या पिनाकधृक्
तमुत्तरं हरः प्राह शृण्वत्या गिरिकन्यया
तन्न शक्नोम्यहं त्यक्तुं विनाज्ञां वृक्षवैरिणः
तदेषा यातु स्वं कामं नाहं वारयितुं क्षमः
ब्रूहि गत्वान्धकं वीर मम वाक्यं विपश्चितम्
प्रामद्यूतं परिस्तीर्य यो जेष्यति स लप्स्यते
समागम्याब्रवीद् वाक्यं शर्वगौर्योश्च भाषितम्
समाहूयाब्रवीद् वाक्यं दुर्योधनमिदं वचः
ताडयस्व सुविश्रब्धं दुःशीलामिव योषितम्
ताडयामास वेगेन यथाप्राणेन भूयसा
सत्वरं भैरवं रावं रुराव सुरभी यथा
समायाताः सभां तूर्णं किमेतदिति वादिनः
ते चापि बलिनां श्रेष्ठाः सन्नद्धा युद्धकाङ्क्षिणः
अन्धको रथमास्थाय पञ्चनल्वप्रणमाणतः
जम्भः कुजम्भो हुण्डश्च तुहुण्डः शम्बरो बलिः
अयःशुङ्कुः शिबिः शाल्वो वृषपर्वा विरोचनः
शरभः शलभश्चैव विप्रचित्तिश्च वीर्यवान्
प्रजगमुरुत्सुका योद्धुं नानायुधधरा रणे
महाचलं मन्दरमभ्युपेयिवान् स कालपाशावसितो हि मन्दधीः
प्राहामन्त्रय शैलादे ये स्थितास्तव शासने