पातालादागमच्छुक्रः खमाश्रमपदं मुनिः
मेघलेखामिवाकाशे संध्यारागेण रञ्जिताम्
कः क्रीडति सरोषेण सममाशीविषेण हि
यस्त्वां सुद्धसमाचारां विध्वंसयति पापकृत्
रुदन्ती व्रीडयोपेता मन्दं मन्दमुवाच ह
बलादनाथा रुदती नीताहं वचनीयताम्
उपस्पृश्य शुचिर्भूत्वा इदं वचनमब्रवीत्
गौरवं च तिरस्कृत्य च्युतधर्मारजा कृता
सप्तरात्रान्तराद् भस्म ग्राववृष्ट्या भविष्यति
त्वं पापमोक्षार्थमिहैव पुत्रि तिष्ठस्व कल्याणि तपश्चरन्ती
जगाम शिष्यसहितः पातालं दानवालयम्
महता ग्राववरषेण सप्तरात्रान्तरे तदा
आलयं राक्षसानां तु कृतं देवेन शंभुना
भस्मभूतान् प्राकृतांस्तु महान्तं च पराभवम्
प्राकृतापि दहेन्नारी किमुताहोद्रिनन्दिनी
द्रष्टुमप्यमितौजस्कः किमु योधयितुं रणे
वाक्यमाह महातेजाः प्रह्लादं चान्धकासुरः
एकाकी धर्मरहितो भस्मारुणितविग्रहः
स कथं वृषपत्राक्षाद् बिभेति स्त्रीमुखेक्षकात्
न सम्यगुक्तं भवता विरुद्धं धर्मतोर्ऽथतः
गजेन्द्रमशकाभ्यां च रुक्मपाषाणयोरिव
तावदेवान्तरं चास्ति भवतो वा हरस्य च
शृणुष्व वाक्यं देवर्षेरसितस्य महात्मनः
स्वदारतुष्टः परदारवर्जो नतस्य लोके भयमस्ति किञ्चित्
परार्थदारेष्सुरवर्णसंगमी सुखं न विन्देत परत्र चेह
धर्मान्वितो ऽभून्मनुरर्कपुत्रः स्वदारसंतुष्टमनास्त्वगस्त्यः
तेजोन्विताः शापवरक्षमाश्च जाताश्च सर्वे सुरसिद्धपूज्याः
परोपतापी नमुचिर्दुरात्मा पराबलेप्सुर्नहुषश्च राजा
अवर्णसंगी यदुस्त्तमौजा एते विनष्टास्त्वनयात् पुरा हि
धर्महीना नरा यान्ति रौरवं नरकं महत्