ततः प्रीतेन मनसा सस्मार सुरवर्द्धकिः
त्वष्ट्राथ संस्मृतः शक्रो मरुद्गणवृतस्तदा
समायातेषु देवेषु गन्धर्वेष्वप्सरस्सु च
जाबालेर्दीयतां ब्रह्मन् सुताकन्दरमालिनः
नन्दयन्तीं च शकुनिः परिणेतुं स्वरूपवान्
बाढमित्यब्रवीद्धृष्टो मुनिर्मनुसुतं नृपम्
ऋत्विजो ऽभूद् गालवस्तु हुत्वा हव्यं विधनतः
आदौ जाबालिनः पाणिर्गृहीतो दैत्यकन्यया
ततः शकुनिना पाणिर्गृहीतो यक्षकन्यया
एवं क्रमाद् विवाहस्तु निर्वृत्तस्तनुमध्यमे
अस्मिस्तीर्थे भवद्भिस्तु सप्तगोदावरे सदा
बाढमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा दिवं क्रमात्
भार्याश्चादाय राजानः स्वं स्वं नगरमागताः
तन्मां कमलपत्राक्षि भजस्व ललनोत्तमे
स्तुवन्मृगाक्षीं मृदुना क्रमेण सा चापि वाक्यं नृपतिं बभाषे
रक्षन्ती भवतः शापादात्मानं च मही पते
कामोपहतचित्तात्मा व्यध्वंसयत मन्दधीः
निश्चक्रामाश्रमात् तस्माद् गतश्च नगरं निजम्
आश्रमादथ निरगत्य बहिस्तस्थावधोसुखी
महाग्रहोपतप्तेव रोहिणी शशिनः प्रिया
पातालादागमच्छुक्रः खमाश्रमपदं मुनिः
मेघलेखामिवाकाशे संध्यारागेण रञ्जिताम्
कः क्रीडति सरोषेण सममाशीविषेण हि
यस्त्वां सुद्धसमाचारां विध्वंसयति पापकृत्
रुदन्ती व्रीडयोपेता मन्दं मन्दमुवाच ह
बलादनाथा रुदती नीताहं वचनीयताम्
उपस्पृश्य शुचिर्भूत्वा इदं वचनमब्रवीत्
गौरवं च तिरस्कृत्य च्युतधर्मारजा कृता
सप्तरात्रान्तराद् भस्म ग्राववृष्ट्या भविष्यति
त्वं पापमोक्षार्थमिहैव पुत्रि तिष्ठस्व कल्याणि तपश्चरन्ती