संपूजयन्तस्त्र्यक्षं ते स्तुवन्तः संस्थिताः क्रमात्
समं ताभिः कृसाङ्गीभिरभ्युत्थायाभ्यवादयत्
समं नृपतिभिर्हृष्टः संविवेश यथासुखम्
स्नात्वा गोदावरीतीर्थे दिदृक्षुर्हाटकेश्वरम्
सापि तां मातरं दृष्ट्वा हृष्टाभूद्वरवर्णिनी
स्नेहात् सवाष्पनयनां मुहुस्तां परिजिघ्रवीत्
गच्छनेतुं गुह्यकं त्वमञ्जनाद्रौ महाञ्जनम्
स्वर्गाद् गन्धर्वराजानं पर्जन्यं शीघ्रमानय
गालवं वानरश्रेष्ठ इहानेतुं त्वमर्हसि
गत्वाञ्जनं समामन्त्र्य जगामामरपर्वतम्
सप्तगोदावरे तीर्थे पातालमगमत् कपिः
पातालादभिनिष्क्रम्य महीं पर्यचरज्जवी
समुत्पत्यानयच्छीघ्रं सप्तगोदावरं जलम्
ददृशे नन्दयन्ती च स्थितां देववतीमपि
ते चापि नृपतिश्रेष्ठस्तं संपूज्य तपोधनम्
तेषूपविष्टेषु तदा वानरोपनिमन्त्रिताः
तानागतान् समीक्ष्यैव पुत्र्यस्ताः पृथुलोचनाः
नन्दयन्त्यादिका दृष्ट्वा सपितृका वरानना
अथ तामाह स मुनिः सत्यं सत्यध्वजो वचः
सा तद्वचनमाकर्ण्य व्रीडोपहतचेतना
दुष्पुत्र्यां मयिजातायं तस्मात् त्यक्षे कलेवरम्
परित्रायस्व मां ब्रह्मन् पापोपहतचेतनाम्
अथोवाच मुनिस्तन्वीं मा विषादं कृथाधुना
भविष्यति पिता तुभ्यं भुययो ऽप्यमरवर्द्धकिः
इत्येवमुक्ते वचने मुनिना भावितात्मना
पुत्रि त्यजस्व शोकं त्वं मासौर्दशभिरात्मजः
इत्येवमुक्ता संहृष्टा बभौ चित्राङ्गदा तदा
सर्वास्ता अपि तावन्तं कालं सुतनुकन्यकाः
ततो दशसु मासेषु समतीतेष्वथाप्सराः
जाते ऽपत्ये कपित्वाच्च विश्वकर्माप्यमुच्यत