आरुह्य बलभीं तास्तु समुदैक्षन्त सर्वशः
सुरथं हसती प्राह संरोहत्पुलका सखीम्
स एव नूनं नरदेवसूनुर्वृतो मया पूर्वतरं पतिर्यः
स एष नूनं तपतां वरिष्ठो ऋतध्वजो नात्र विचारमस्ति
एषो ऽपरो ऽस्यैव सुतो जावालिर्नात्र संशयः
समासताग्रतः शंभोर्गायन्त्यो गीतिकां शुभाम्
द्रष्टुं त्रैलोक्यकर्तारं त्र्यम्बकं हाटकेश्वरम्
स्थितास्तु पुरतस्तस्य गायन्त्यो गेयमुत्तमम्
दृष्ट्वा हृषितचित्तस्तु संरोहत्पुलको बभौ
प्रत्यभिज्ञाय योगात्मा बभौ मुदितमानसः
संपूजयन्तस्त्र्यक्षं ते स्तुवन्तः संस्थिताः क्रमात्
समं ताभिः कृसाङ्गीभिरभ्युत्थायाभ्यवादयत्
समं नृपतिभिर्हृष्टः संविवेश यथासुखम्
स्नात्वा गोदावरीतीर्थे दिदृक्षुर्हाटकेश्वरम्
सापि तां मातरं दृष्ट्वा हृष्टाभूद्वरवर्णिनी
स्नेहात् सवाष्पनयनां मुहुस्तां परिजिघ्रवीत्
गच्छनेतुं गुह्यकं त्वमञ्जनाद्रौ महाञ्जनम्
स्वर्गाद् गन्धर्वराजानं पर्जन्यं शीघ्रमानय
गालवं वानरश्रेष्ठ इहानेतुं त्वमर्हसि
गत्वाञ्जनं समामन्त्र्य जगामामरपर्वतम्
सप्तगोदावरे तीर्थे पातालमगमत् कपिः
पातालादभिनिष्क्रम्य महीं पर्यचरज्जवी
समुत्पत्यानयच्छीघ्रं सप्तगोदावरं जलम्
ददृशे नन्दयन्ती च स्थितां देववतीमपि
ते चापि नृपतिश्रेष्ठस्तं संपूज्य तपोधनम्
तेषूपविष्टेषु तदा वानरोपनिमन्त्रिताः
तानागतान् समीक्ष्यैव पुत्र्यस्ताः पृथुलोचनाः
नन्दयन्त्यादिका दृष्ट्वा सपितृका वरानना
अथ तामाह स मुनिः सत्यं सत्यध्वजो वचः
सा तद्वचनमाकर्ण्य व्रीडोपहतचेतना