मम पुत्रस्त्वयोद्बद्धो जटासु वटपादपे
तदनेन नरेन्द्रेण त्रिधा कृत्वा तु शाखिनः
दशवर्षशतान्यस्य शाखां वै वहतो ऽगमन्
स ऋषेर्वाक्यमाकर्ण्य कपिर्जाबालिनो जटाः
ततः प्रीतो मुनिश्रेष्ठो वरदोभूदृतध्जः
ऋतध्वजवचः श्रुत्वा इमं वरमयाचत
ब्रह्मन् भवान्वरं मह्यं यदि दातुमिहेच्छति
चित्राङ्गदायाः पितरं मां त्वष्टारं तपोधन
सुबहूनि च पापानि मया यानि कृतानि हि
ततो ऋथध्वजः प्राह शापस्यान्तो भविष्यति
इत्येवमुक्ताः संहृष्टः स तदा कपिकुञ्जरः
ततस्तु सर्वे क्रमाशः स्नात्वार्ऽच्य पितृदेवताः
तामन्वेव महावेगः स कपिः प्लवतां वरः
सापि तं बलिनां श्रेष्ठं दृष्ट्वैव कपिकुञ्जरम्
ततो ऽनु पर्वतश्रेष्ठे ख्याते कोलाहले कपिः
एवं रमन्तौ सुचिरं संप्राप्तौ विन्ध्यपर्वतम्
मघ्याह्नमये प्रीताः सप्तगोदावरं जलम्
तेषां सारथयश्चाश्वान् स्नात्वा पीतोदकाप्लुतान्
शाढ्वलाढ्येषु देशेषु मुहुर्त्तादेव वाजिनः
तुरङ्गखुरनिर्घोषं श्रुत्वा ता योषितां वराः
आरुह्य बलभीं तास्तु समुदैक्षन्त सर्वशः
सुरथं हसती प्राह संरोहत्पुलका सखीम्
स एव नूनं नरदेवसूनुर्वृतो मया पूर्वतरं पतिर्यः
स एष नूनं तपतां वरिष्ठो ऋतध्वजो नात्र विचारमस्ति
एषो ऽपरो ऽस्यैव सुतो जावालिर्नात्र संशयः
समासताग्रतः शंभोर्गायन्त्यो गीतिकां शुभाम्
द्रष्टुं त्रैलोक्यकर्तारं त्र्यम्बकं हाटकेश्वरम्
स्थितास्तु पुरतस्तस्य गायन्त्यो गेयमुत्तमम्
दृष्ट्वा हृषितचित्तस्तु संरोहत्पुलको बभौ
प्रत्यभिज्ञाय योगात्मा बभौ मुदितमानसः