योगाभ्यासरतौ नित्यं हरिकृष्णौ बभूवतुः
तप्येतां च तपः सौम्यौ पुराणवृषिसत्त्मौ
गृमन्तौ तत्परं ब्रह्म गङ्गाया विपुले तटे
तापितं तपसा ब्रह्मन् शक्रः क्षोभं तदा ययौ
रम्भाद्याप्सरसः श्रेष्ठाः प्रेषयत्स महाश्रमम्
समं सहचरेणैव वसन्तेनाश्रमं गतः
बदर्याश्रममागम्य विचिक्रीडुर्यथेच्छया
निष्पत्राः सततं रेजुः शोमभयन्तो धरातलम्
वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने
तमेव हसतेत्युच्चैः वसन्तः कुन्दकुड्मलैः
यथा नरेन्द्रपुत्राणि कनकाभरणानि हि
स्वमिसंलब्धसंमाना भृत्या राजसुतानिव
भृत्वा वसन्तनृपतेः संग्रामे ऽसृक्प्लुता इव
पुलकाभिर्वृता यद्वत् सज्जनाः सुहृदागमे
वक्तुकामा इवाङ्गुल्या को ऽस्माकं सदृशो नगः
नीलाशोककचा श्यामा विकासिकमलानना
प्रफुल्लकुन्ददशना मञ्जरीकरशोभिता
पुंस्कोकिलस्वना दिव्या अङ्कोलवसना शुभा
प्राग्वंशरसना ब्रह्मन् मत्तहंसगतिस्तथा
वसन्तलक्ष्मीः संप्राप्ता ब३ह्मन् बदरिकाश्रमे
समीक्ष्य च दिशः सर्वास्ततो ऽनङ्गमपश्यत
यं ददर्श जगन्नाथो देवो नारायणो ऽव्ययः
स शङ्करेण संदग्धो ह्यनङ्गत्वमुपागतः
दग्धस्तु कारणे कस्मिन्नेतद्व्याख्यातुमर्हसि
विनाश्य दक्षयज्ञं तं विचचार त्रिलोचनः
अपत्नीकं तदास्त्रेण उन्मादेनाभ्यताडयत्
विचचार तदोन्मत्तः काननानि सरांसि च
न शर्म लेभे देवर्षे बाणविद्ध इव द्विपः
निमग्ने शङ्करे आपो दग्धाः कृष्णात्वमागताः
आस्यन्दत् पुण्यतीर्था सा केशपाशमिवावने