स्यन्दनानि द्विजाभ्यां स भ्रातृपुत्राय चार्पयत्
बदर्याश्रममासाद्य ददृशुस्तपसां निधिम्
निःश्वासायासपरमं प्रथमे वयसि स्थितम्
तपस्विन् यौवने घोरमास्थितो ऽसि सुदुश्चरम्
सो ऽब्रवीत् को भवान् ब्रूहि ममात्मानं सुहृत्तया
स प्राह राजास्मि विभो तपस्विन् शाकले पुरे
स चास्मै पूर्वचरितं सर्वं कथितवान् नृपः
आगच्छ यामि तन्वङ्गीं विचेतुं भ्रातृजो ऽसि मे
समारोप्य रथं तूर्णं तापसाभ्यां न्यवेदयत्
प्रोवाच राजन्नेह्योहि करिष्यामि तव प्रियम्
सप्तगोदावरं तीर्थं सा मयैव विसर्जिता
तत्रास्माकं समेष्यन्ति कन्यास्तिस्रस्तथापराः
शकुनिं पुरतझ कृत्वा सेन्द्रद्युम्नः सपुत्रकः
सप्तगोदावरं तीर्थं यत्र ताः कन्यका गताः
विचचारोदयगिरिं विचिन्वन्ती सुतां निजाम्
किं बाला न त्वया दृष्टा कपे सत्यं वदस्व मां
दृष्टा देववती नाम्ना मया न्यस्ता महाश्रमे
श्रकण्ठायतनस्याग्रे मया सत्यं तवोदितम्
न हि देववती ख्याता तदाच्छ व्रजावहे
पृष्ठतो ऽस्याः समागच्छन्नदीमन्वेव कौशिकीम्
द्वितये तापसाभ्यां च रथैः परमवेगिभिः
घृताच्यपि नदीं स्नातं सुपण्यमाजगाम ह
दृष्ट्वैव पितरं पार्थिवं च महाबलम्
पूर्वं जटास्वेव बलाद्योन बद्धो ऽस्मि पादपे
सशरं धनुरादाय इदं वचनमब्रवीत्
यावदेनं निहन्म्यद्य शरेणैकेन वानरम्
महर्षिः शकुनिं प्राह देतुयुक्तं वचो महत्
वधबन्धौ पूर्वकर्मवश्यौ नृपतिनन्दन
एह्येहि वानरास्माकं साहाय्यं कर्तुमर्हसि
ममाज्ञा दीयतां ब्रह्मन् शाधि किं करवाण्यहम्