सुरथेन स कामार्तो मामेव शरणं गतः
ततः शप्तास्मि तातेन वियुक्तास्मि च भूभुजा
श्रीकण्ठमगमं द्रष्टुं ततो गोदावरं जलम्
न चापि दृष्टः सुरथः स मनोह्लादनः पतिः
समागता हि तच्छंस मम सत्येन भामिनि
यता यात्राफले वृत्ते समायातास्मि पुष्करम्
रममाणा वनेद्देशे दृष्टास्मि कपना सखि
आनीतास्यश्रमात् केन भूपृष्ठान्मेरुपर्वतम्
नाम्ना वेदवतीत्येवं मेरोरपि कृताश्रया
समारूढास्मि सहसा बन्दुजीवं नगोत्तमम्
सह तेनैव वृक्षेण पतितास्म्यहमाकुला
सह तेनैव वृक्षेण पतितास्म्यहमाकुला
ददृशुः सर्वभूतानि स्तावराणि चराणि च
ऊचुश्च सिद्धगन्धर्वाः कष्टं सेयं महात्मनः
मनोः पुत्रस्य वीरस्य सहस्रक्रतुयाजिनः
न च जाने स केनापि वृक्षश्छिन्नः सहस्रधा
समानीतास्मयहमिमं त्वं दृष्टा चाद्य सुन्दरि
कन्यके अनुपश्ये हि पुण्करस्योत्तरे तटे
जगाम कन्यके द्रष्टुं प्रष्टुं कार्यसमुत्सुका
याथातथ्यं तयोस्ताभ्यां स्वमात्मानं निवेदितम्
संप्राप्य तीर्थे पिष्ठन्ति अर्चन्त्यो हाटकेश्वरम्
तासामर्थाय शकुनिर्जाबालिः सऋतध्वजः
काले जगाम निर्वेदात् समं पित्रा तु शाकलम्
समध्यास्ते स विज्ञाय सार्घपात्रो विनिर्ययौ
स चेक्ष्वाकुसुतो धीमान् शकुनिर्भ्रातृजोर्चितः
राजन् नष्टऽबलास्माकं नन्दयन्तीति विश्रुता
तस्मादुत्तिष्ठ मार्गस्व साहाय्यं कर्तुमर्हसि
नष्टा कृतश्रमस्यापि कस्याहं कथयामि ताम्
सिद्धानां वाक्यमाकर्ण्य बाणैश्छिन्नः सहस्रधा
न च जानामि सा कुत्र तस्माद् गच्छामि मार्गितुम्