द्रष्टुं श्रिकण्ठमव्यक्तं गालवो नाम नामतः
प्रविवेश शुचिः स्नात्वा कालिन्द्या विमले जले
गायेते सुस्वरं गीतं यक्षासुरसुते ततः
गन्धर्वकन्येक चैते संदेहो नात्र विद्यते
कृतजप्यः समध्यास्ते कन्याभ्यामबिवादितः
कुलालङ्कारणे भक्तियुक्ते भवस्य हि
जातो विदितवृत्तान्तो गालवस्तपतां वरः
प्रातरुत्थाय गौरीसं संपूज्य च विधानतः
आमन्त्रयामि वां कन्ये समनुज्ञातुमर्हथः
किमर्थं पुष्करारण्यं भवान् यास्यत्यथादरात्
कार्तिकी पुण्यदा भाविमासान्ते पुष्करेषु हि
न त्वया स्म विना ब्रह्मन्निह चस्थातुं हि शक्नुवः
गते ते ऋषिणा सार्द्धू पुष्करारण्यमादरात्
पार्थिवा जानपद्याश्च मुक्त्वैकं तमृतध्वजम्
राजानश्च महाभागा नाभागेक्ष्वाकुसंयुताः
स्नातुं स पुष्करे तीर्थे मध्यमे धनुषाकृतौ
बह्वीभिर्मत्स्यकन्याभिः प्रीयमाणं पुनः पुनः
जनापवादं घोरं हि न शक्तः सोढुमुल्बणम्
तापसं कन्यकाभ्यां वै विचरन्तं यथेच्छया
जनापवादात् तत्किं त्वं बिभेषु जलमध्यगः
रागान्धो नापि च भयं विजानाति सुबालिशः
नोत्तत्तार निमग्नो ऽपि तस्थौ स विजितेन्द्रियः
ऋषयः पार्थिवाश्चान्ये नाना जानपदस्तदा
चित्राङ्गदा सुचार्वङ्गी वीक्षन्ती तनुमध्यमे
संस्थिते निर्जने तीर्थे गालवो ऽन्तर्जले तथा
पर्जन्यतनया साध्वी घृताचीर्गर्भसंभवा
ददर्श कन्यात्रितयमुभयोस्तटयोः स्थितम्
कासि केन च कार्येण निर्जने स्थितवत्यसि
चित्राङ्गदेति सुश्रेणि विख्यातां विश्वकर्मणः
नैमिषे काञ्चनाक्षीं तु विख्यातां धर्ममातरम्