सा चावस्थामिमां प्राप्ता कश्चिन्मां त्रातुमीश्वरः
ददृसे चाश्रमवरं मत्तकोकिलनादितम्
इत्येवं चिन्तयन्ती सा संप्रविष्टा महाश्रमम्
संशुष्कास्यां चलन्नेत्रां परिम्लानामिवाब्जिनीम्
केयमित्येव संचिन्त्य समुत्थाय स्थिताभवत्
पप्रच्छतुस्तथान्यो ऽयं कथयामासतुस्तदा
समासीने कथाभिस्ते नानारूपाभिरादरात्
स तत्त्वज्ञो मुनिश्रेष्ठो अक्षराण्यवलोकयन्
मुहूर्तं ध्यानमास्थाय व्यजानाच्च तपोनिधिः
अयोध्यामगमत् क्षिप्रं द्रष्टुमिक्ष्वाकुमीश्वरम्
श्रूयतां नरसार्दूल विज्ञप्तिर्मम पार्थिव
उद्ब्द्धः कपिना राजन् विषयानते तवैव हि
शकुनिर्नाम राजेन्द्र स ह्यस्त्रविधिपारगः
आदिदेश प्रियं पुत्रं शकुनिं तापसान्वये
संप्राप्तो बन्धनोद्देशं समं हि परमर्षिणा
ददर्श वृक्षशिखरे उद्बद्धमृषिपुत्रकम्
दृष्ट्वा स मुनिपुत्रं तं स्वजटासंयतं वटे
लाघवादृषिपुत्रं तं रक्षंश्चिच्छेदमार्गणैः
पञ्चवर्षशते काले गते शक्तस्तदा शरैः
प्राप्तं स्वपितरं दृष्ट्वा जाबालिः संयतो ऽपि सन्
संपरिष्वज्य स मुनिर्मूर्ध्न्याघ्राय सुतं ततः
ततस्तूर्णं धनुर्न्यस्य बाणांश्च शकुनिर्बली
न च शक्नोति संच्छन्नं दृढं कपिवरेम हि
तदावतीर्णः शकुनिः सहितः परमर्षिणा
लाघवादर्द्धचन्द्रैस्तां शाखां चिच्छेद स त्रिधा
शरसोपानमार्गेण अवतीर्णो ऽथ पादपात्
जाबालिना भारवहेन संयुतः समाजगामाथ नदीं स सूर्यजाम्
समागते हरं द्रष्टुं श्रीकण्ठं योगिनां वरम्
बहुनिरमालल्यसंयुक्तं गते तस्मिन् ऋतध्वजे
स्नापयेतां विधानेन पूजयेतामहर्निशम्