तिर्यगूर्ध्वमधश्चैव समन्तादवलोकयत्
पिङ्गलाभिर्जटाभिस्तु उद्ब्द्धं यत्नतः शुभे
प्राह केनासि बद्धस्त्वं पापिना वद बालक
जटास्वेवं सुदुष्टेन जीवामि तपसो बलात्
तत्रास्ति तपसो राशिः पिता मम ऋतध्वजः
जातो ऽलिवृन्दसंयुक्तः सर्वशास्त्रविशारदः
जाबालीति परिख्याय तच्छृणुष्व शुभानने
दशवर्षसहस्राणि सुमारत्वे चरिष्यसि
पञ्चवर्षशतान् बालो भोक्ष्यसे बन्धनं दृढम्
यौवने पारमान् भोगान् द्विसहस्रसमास्तथा
लप्स्यसे भूमिशय्याढ्यं कदन्नाशनभोजनम्
विचरामि महीपृष्ठं गच्छन् स्नातुं हिरण्वतीम्
इमां देववतीं गृह्यं मूढ न्यस्तां महाश्रमे
वटाग्रे ऽस्मिन्नुद्ब्बन्ध जटाभिरपि सुन्दरि
लतापाशैर्महायन्त्रमधस्ताद् दुष्टबुद्धिना
दिशां मुकेषु सर्वेषु कृतं यन्त्रं लतामयम्
यथेच्छया मया दृष्टमेतत् ते गदितं शुभे
समायाता सुचार्वङ्गी केन सार्थेन मां वद
नन्दयन्तीति मे नाम प्रम्लोचागर्भसंभवा
इयं नरेन्द्रमहिषी भविष्यति न संशयः
शिवा चाशिवनिर्घोषा ततो भूयो ऽब्रवीनमुनिः
ततो जगाम स ऋषिरेवमुक्त्वा वचो ऽद्भुतम्
तीर्थं ततो हिरण्वत्यास्तीरात् कपिरथोत्पतत्
तयास्मि देशमानीता इमं मानुषवर्जितम्
प्राह सुन्दरि गच्छस्व श्रीकण्ठं यमुनातटे
तस्मै निवेदयात्मानं तत्र श्रेयो ऽधिलप्स्यसे
परित्राणार्थमगमद्धिमाद्रेर्यमुनां नदीम्
संप्राप्ता शङ्करस्थानं यत्रागच्छति तापसः
प्रतिवन्द्य ततो ऽपश्यक्षरांस्तान्महामुने
तज्जाबाल्युदितं श्लोकमलिखच्चान्यमात्मनः